०७७

आदित्यसंक्रमणम् ॥ ७७.१ ॥

विषुवद्द्वयम् ॥ ७७.२ ॥

विशेषेणायनद्वयम् ॥ ७७.३ ॥

व्यतीपातः ॥ ७७.४ ॥

जन्मर्क्षम् ॥ ७७.५ ॥

अभ्युदयश्च ॥ ७७.६ ॥

एतांस्तु श्राद्धकालान् वै काम्यानाह प्रजापतिः ।
श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पते ॥ ७७.७ ॥

संध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः ।
तयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ॥ ७७.८ ॥

राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् ।
गुणवत्सर्वकामीयं पितॄणामुपतिष्ठते ॥ ७७.९ ॥