०७५

पितरि जीवति यः श्राद्धं कुर्यात्, स येषां पिता कुर्यात्तेषां कुर्यात् ॥ ७५.१ ॥

पितरि पितामहे च जीवति येषां पितामहः ॥ ७५.२ ॥

पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् ॥ ७५.३ ॥

यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दद्यात् ॥ ७५.४ ॥

यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पितामहपितामहाय दद्यात् ॥ ७५.५ ॥

यस्य पितामहः प्रेतः स्यात्स तस्मै पिण्डं निधाय प्रपितामहात्परं द्वाभ्यां दद्यात् ॥ ७५.६ ॥

मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः ।
मन्त्रोहेण यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ ७५.७ ॥