०७४

अष्टकासु दैवपूर्वं शाकमांसापूपैः श्राद्धं कृत्वान्वष्टकास्वष्टकावद्वह्नौ हुत्वा दैवपूर्वमेव मात्रे पितामह्यै प्रपितामह्यै च पूर्ववद्ब्राह्मणान् भोजयित्वा दक्षिणाभिश्चाभ्यर्च्यानुव्रज्य विसर्जयेत् ॥ ७४.१ ॥

ततः कर्षूः कुर्यात् ॥ ७४.२ ॥

तन्मूले प्रागुदगग्न्युपसमाधानं कृत्वा पिण्डनिर्वपणम् ॥ ७४.३ ॥

कर्षूत्रयमूले पुरुषाणां कर्षूत्रयमूले स्त्रीणाम् ॥ ७४.४ ॥

पुरुषकर्षूत्रयं सान्नेनोदकेन पूरयेत् ॥ ७४.५ ॥

स्त्रीकर्षूत्रयं सान्नेन पयसा ॥ ७४.६ ॥

दध्ना मांसेन पयसा प्रत्येकं कर्षूत्रयम् ॥ ७४.७ ॥

पूरयित्वा जपेदेतद्भवद्भ्यो भवतीब्योऽस्तु चाक्षयम् ॥ ७४.८ ॥