अथ श्राद्धेप्सुः पूर्वेद्युर्ब्राह्मणानामन्त्रयेत् ॥ ७३.१ ॥
द्वितीयेऽह्नि शुक्लपक्षस्य पूर्वाह्णे कृष्णपक्षस्यापराह्णे विप्रान् सुस्नातान् स्वाचान्तान् यथाभूयो वयःक्रमेण कुशोत्तरेष्वासनेषूपवेशयेत् ॥ ७३.२ ॥
द्वौ दैवे प्राङ्मुखौ त्रींश्च पित्र्ये उदङ्मुखान् ॥ ७३.३ ॥
एकैकमुभयत्र वेति ॥ ७३.४ ॥
आमश्राद्धेषु काम्येषु च प्रथमपञ्चकेनाग्निं हुत्वा ॥ ७३.५ ॥
पशुश्राद्धेषु मध्यमपञ्चकेन ॥ ७३.६ ॥
अमावास्यासूत्तमपञ्चकेन ॥ ७३.७ ॥
आग्रहायण्या ऊर्ध्वं कृष्णाष्टकासु च क्रमेणैव प्रथममध्यमोत्तमपञ्चकैः ॥ ७३.८ ॥
अन्वष्टकासु च ॥ ७३.९ ॥
ततो ब्राह्मणानुज्ञातः पितॄनावाहयेत् ॥ ७३.१० ॥
अपयन्त्वसुरा इति द्वाभ्यां तिलैः यातुधानानां विसर्जनं कृत्वा ॥ ७३.११ ॥
एत पितरः सर्वांस्तानग्र आ मे यन्त्वेतद्वः पितर इत्यावाहनं कृत्वा, कुशतिलमिश्रेण गन्धोदकेन यास्तिष्ठन्त्यमृता वागिति यन्मे मातेति च पाद्यं निवेद्य, अर्घ्यं कृत्वा निवेद्य चानुलेपनं कृत्वा कुशतिलवस्त्रपुष्पालंकारधूपदीपैर्यथाशक्त्या विप्रान् समभ्यर्च्य घृतप्लुतमन्नमादाय आदित्या रुद्रा वसव इति वीक्ष्य, अग्नौ करवाणीत्युक्त्वा तच्च विप्रैः कुर्वित्युक्ते आहुतित्रयं दद्यात् ॥ ७३.१२ ॥
ये मामकाः पितर एतद्वः पितरोऽयं यज्ञ इति च हविरनुमन्त्रणं कृत्वा यथोपपन्नेषु पात्रेषु विशेषाद्रजतमयेष्वन्नं नमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्राङ्मुखयोर्निवेदयेत् ॥ ७३.१३ ॥
पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्यामुदङ्मुखेषु ॥ ७३.१४ ॥
तददत्सु ब्राह्मणेषु यन्मे प्रकामादहोरात्रैर्यद्वः क्रव्यादिति जपेत् ॥ ७३.१५ ॥
इतिहासपुराणधर्मशास्त्राणि चेति ॥ ७३.१६ ॥
उच्छिष्टसंनिधौ दक्षिनाग्रेषु कुशेषु पृथिवी दर्विरक्षिता इत्येकं पिण्डं पित्रे निदध्यात् ॥ ७३.१७ ॥
अन्तरिक्षं दर्विरक्षिता इत्य्द्वितीयं पिण्डं पितामहाय ॥ ७३.१८ ॥
द्यौर्दर्विरक्षिता इति तृतीयं प्रपितामहाय ॥ ७३.१९ ॥
ये अत्र पितरः प्रेता इति वासो देयम् ॥ ७३.२० ॥
वीरान्नः पितरो धत्त इत्यन्नम् ॥ ७३.२१ ॥
अत्र पितरो मादयध्वं यथाभागमिति दर्भमूले करावघर्षणम् ॥ ७३.२२ ॥
ऊर्जं वहन्तीरित्यनेन सोदकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वा अर्घपुष्पधूपालेपनान्नादिभक्ष्यभोज्यानि निवेदयेत् ॥ ७३.२३ ॥
उदकपात्रं मधुघृततिलैः संयुक्तं च ॥ ७३.२४ ॥
भुक्तवत्सु ब्राह्मणेषु तृप्तिमागतेषु, मा मे क्षेष्थेत्यन्नं सतृणमभ्युक्ष्यान्नविकिरमुच्छिष्टाग्रतः कृत्वा, तृप्ता भवन्तः संपन्नमिति च पृष्ट्वा उदङ्मुखेष्वाचमनमादौ दत्त्वा, ततः प्राङ्मुखेषु दत्त्वा, ततश्च सुप्रोक्षितमिति श्राद्धदेशं संप्रोक्ष्य, दर्भपाणिः सर्वं कुर्यात् ॥ ७३.२५ ॥
ततः प्राङ्मुखाग्रतो यन्मे राम इति प्रदक्षिणं कृत्वा प्रत्येत्य च, यथाशक्तिदक्षिणाभिः समभ्यर्च्य, अभिरमन्तु भवन्त इत्युक्त्वा, तैरुक्तेऽभिरताः स्म इति, देवाश्च पितरश्चेत्यभिजपेत् ॥ ७३.२६ ॥
अक्षय्योदकं च नामगोत्राभ्यां दत्त्वा विश्वे देवाः प्रीयन्तामिति प्राङ्मुखेभ्यस्ततः प्राञ्जलिरिदं तन्मनाः सुमना याचेत ॥ ७३.२७ ॥
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ ७३.२८ ॥
तथास्त्विति ब्रूयुः ॥ ७३.२९ ॥
अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नः सन्तु मा च याचिष्म कंचन ॥ ७३.३० ॥
इत्येताभ्यामाशिषः प्रतिगृह्य ॥ ७३.३१ ॥
वाजे वाज इत्य्च ततो ब्राह्मणांश्च विसर्जयेत् ।
पूजयित्वा यथान्यायमनुव्रज्याभिवाद्य च ॥ ७३.३२ ॥