०७२

दमयमेन तिष्ठेत् ॥ ७२.१ ॥

दमश्चेन्द्रियाणां प्रकीर्तितः ॥ ७२.२ ॥

दान्तस्यायं लोकः परश्च ॥ ७२.३ ॥

नादान्तस्य क्रिया काचित्समृध्यति ॥ ७२.४ ॥

दमः पवित्रं परमं मङ्गल्यं परमं दमः ।
दमेन सर्वमाप्नोति यत्किंचिन्मनसेच्छति ॥ ७२.५ ॥

दशार्धयुक्तेन रथेन यातो मनोवशेनार्यपथानुवर्तिना ।
तं चेद्रथं नापहरन्ति वाजिनस्तथागतं नावजयन्ति शत्रवः ॥ ७२.६ ॥

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७२.७ ॥