नाष्टमीचतुर्दशीपञ्चदशीषु स्त्रियमुपेयात् ॥ ६९.१ ॥
न श्राद्धं भुक्त्वा ॥ ६९.२ ॥
न दत्त्वा ॥ ६९.३ ॥
नोपनिमन्त्रितः श्राद्धे ॥ ६९.४ ॥
न व्रती ॥ ६९.५ ॥
न दीक्षितः ॥ ६९.६ ॥
न देवायतनश्मशानशून्यालयेषु ॥ ६९.७ ॥
न वृक्षमूलेषु ॥ ६९.८ ॥
न दिवा ॥ ६९.९ ॥
न संध्ययोः ॥ ६९.१० ॥
न मलिनाम् ॥ ६९.११ ॥
न मलिनः ॥ ६९.१२ ॥
नाभ्यक्ताम् ॥ ६९.१३ ॥
नाभ्यक्तः ॥ ६९.१४ ॥
न रोगार्ताम् ॥ ६९.१५ ॥
न रोगार्तः ॥ ६९.१६ ॥
न हीनाङ्गीं नाधिकाङ्गीं तथैव च वयोऽधिकाम् ।
नोपेयाद्गुर्विणीं नारीं दीर्घमायुर्जिजीविषुः ॥ ६९.१७ ॥