चन्द्रार्कोपरागे नाश्नीयात् ॥ ६८.१ ॥
स्नात्वा मुक्तयोरश्नीयात् ॥ ६८.२ ॥
अमुक्तयोरस्तं गतयोः स्नात्वा दृष्ट्वा चापरेऽह्नि ॥ ६८.३ ॥
न गोब्राह्मणोपरागेऽश्नीयात् ॥ ६८.४ ॥
न राज्ञो व्यसने ॥ ६८.५ ॥
प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्यते तदाश्नीयात् ॥ ६८.६ ॥
यदा कृतं मन्येत वैश्वदेवमपि ॥ ६८.७ ॥
पर्वणि च यदा कृतं मन्येत पर्व ॥ ६८.८ ॥
नाश्नीयाच्चाजीर्णे ॥ ६८.९ ॥
नार्धरात्रे ॥ ६८.१० ॥
न मद्याह्ने ॥ ६८.११ ॥
न संध्ययोः ॥ ६८.१२ ॥
नार्द्रवासाः ॥ ६८.१३ ॥
नैकवासाः ॥ ६८.१४ ॥
न नग्नः ॥ ६८.१५ ॥
नोदके ॥ ६८.१६ ॥
नोत्कुटकः ॥ ६८.१७ ॥
न भिन्नासनगतः ॥ ६८.१८ ॥
न च शयनगतः ॥ ६८.१९ ॥
न भिन्नभोजने ॥ ६८.२० ॥
नोत्सङ्गे ॥ ६८.२१ ॥
न भुवि ॥ ६८.२२ ॥
न पाणौ ॥ ६८.२३ ॥
लवणं च यत्र दद्यात्तन्नाश्नीयात् ॥ ६८.२४ ॥
न बालकान्निर्भत्सेयन् ॥ ६८.२५ ॥
नैको मृष्टम् ॥ ६८.२६ ॥
नोद्धृतस्नेहम् ॥ ६८.२७ ॥
न दिवा धानाः ॥ ६८.२८ ॥
न रात्रौ तिलसंबन्धम् ॥ ६८.२९ ॥
न दधिसक्तून् ॥ ६८.३० ॥
न कोविदारवटपिप्पलशाणशाकम् ॥ ६८.३१ ॥
नादत्त्वा ॥ ६८.३२ ॥
नाहुत्वा ॥ ६८.३३ ॥
नानार्द्रपादः ॥ ६८.३४ ॥
नानार्द्रकरमुखश्च ॥ ६८.३५ ॥
नोच्छिष्टश्च घृतमादद्यात् ॥ ६८.३६ ॥
न चन्द्रार्कतारका निरीक्षेत ॥ ६८.३७ ॥
न मूर्धानं स्पृशेत् ॥ ६८.३८ ॥
न ब्रह्म कीर्तयेत् ॥ ६८.३९ ॥
प्राङ्मुखोऽश्नीयात् ॥ ६८.४० ॥
दक्षिणामुखो वा ॥ ६८.४१ ॥
अभिपूज्यान्नम् ॥ ६८.४२ ॥
सुमनाः स्रग्व्यनुलिप्तश्च ॥ ६८.४३ ॥
न निःशेषकृत्स्यात् ॥ ६८.४४ ॥
अन्यत्र दधिमधुसर्पिःपयःसक्तुपलमोदकेभ्यः ॥ ६८.४५ ॥
नाश्नीयाद्भार्यया सार्धं नाकाशे न तथोत्थितः ।
बहूनां प्रेक्षमाणानां नैकस्मिन् बहवस्तथा ॥ ६८.४६ ॥
शून्यालये वह्निगृहे देवागारे कथंचन ।
पिबेन्नाञ्जलिना तोयं नातिसौहित्यमाचरेत् ॥ ६८.४७ ॥
न तृतीयमथाश्नीत न चापथ्यं कथंचन ।
नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ ६८.४८ ॥
न भावदुष्टमश्नीयान्न भाण्डे भावदूषिते ।
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ॥ ६८.४९ ॥