अथाग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य परिषिच्य सर्वतः पाकादग्रमुद्धृत्य जुहुयात् ॥ ६७.१ ॥
वासुदेवाय संकर्षणाय प्रद्युम्नायानिरुद्धाय पुरुषाय सत्यायाच्युताय वासुदेवाय ॥ ६७.२ ॥
अथाग्नये, सोमाय, मित्राय, वरुणाय, इन्द्राय, इन्द्राग्निभ्यां, विश्वेभ्यो देवेभ्यः, प्रजापतये, अनुमत्यै, धन्वन्तरये, वास्तोष्पतये, अग्नये स्विष्टकृते च ॥ ६७.३ ॥
ततोऽन्नशेषेण बलिमुपहरेत् ॥ ६७.४ ॥
भक्षोपभक्षाभ्याम् ॥ ६७.५ ॥
अभितः पूर्वेणाग्निम् ॥ ६७.६ ॥
अम्बा नामासीति, दुला नामासीति, नितन्ती नामासीति, चुपुणीका नामासीति सर्वासाम् ॥ ६७.७ ॥
नन्दिनि सुभगे सुमङ्गलि भद्रंकरीति स्वश्रिष्वभिप्रदक्षिणम् ॥ ६७.८ ॥
स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश्च ॥ ६७.९ ॥
धर्माधर्मयोर्द्वारे मृत्यवे च ॥ ६७.१० ॥
उदधाने वरुणाय ॥ ६७.११ ॥
विष्णव इत्युलूखले ॥ ६७.१२ ॥
मरुद्भ्य इति दृषदि ॥ ६७.१३ ॥
उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश्च ॥ ६७.१४ ॥
इन्द्रायेन्द्रपुरुषेभ्यश्चेति पूर्वार्धे ॥ ६७.१५ ॥
यमाय यमपुरुषेभ्य इति दक्षिनार्धे ॥ ६७.१६ ॥
वरुणाय वरुणपुरुषेभ्य इति पश्चार्धे ॥ ६७.१७ ॥
सोमाय सोमपुरुषेभ्य इत्युत्तरार्धे ॥ ६७.१८ ॥
ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये ॥ ६७.१९ ॥
ऊर्ध्वमाकाशाय ॥ ६७.२० ॥
स्थण्डिले दिवाचरेभ्यो भूतेभ्य इति दिवा ॥ ६७.२१ ॥
नक्तंचरेभ्य इति नक्तम् ॥ ६७.२२ ॥
ततो *दक्षिणाग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यै नामगोत्राभ्यां च पिण्डनिर्वापणं कुर्यात्[दक्षिणग्रेषु] ॥ ६७.२३ ॥
पिण्डानां चानुलेपनपुष्पधूपनैवेद्यादि दद्यात् ॥ ६७.२४ ॥
उदककलशमुपनिधाय स्वस्त्ययनं वाचयेत् ॥ ६७.२५ ॥
श्वकाकश्वपचानां भुवि निर्वपेत् ॥ ६७.२६ ॥
भिक्षां च दद्यात् ॥ ६७.२७ ॥
अतिथिपूजने च परं यत्नमातिष्ठेत ॥ ६७.२८ ॥
सायमतिथिं प्राप्तं प्रयत्नेनार्चयेत् ॥ ६७.२९ ॥
अनाशितमतिथिं गृहे न वासयेत् ॥ ६७.३० ॥
यथा वर्णानां ब्राह्मणः प्रभुर्यथा स्त्रीणां भर्ता तथा गृहस्थस्यातिथिः ॥ ६७.३१ ॥
तत्पूजया स्वर्गमाप्नोति ॥ ६७.३२ ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
तस्मात्सुकृतमादाय दुष्कृतं तु प्रयच्छति ॥ ६७.३३ ॥
एकरात्रं हि निवसन्नतिथिर्ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ६७.३४ ॥
नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा ।
उपस्थितं गृहे विन्द्याद्भार्या यत्राग्नयोऽपि वा ॥ ६७.३५ ॥
यदि त्वतिथिधर्मेण क्षत्रियो गृहमागतः ।
भुक्तवत्सु च विप्रेसु कामं तमपि भोजयेत् ॥ ६७.३६ ॥
वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ ।
भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ ६७.३७ ॥
इतरानपि सख्यादीन् संप्रीत्या गृहमागतान् ।
प्रकृतान्नं यथाशक्ति भोजयेत्सह भार्यया ॥ ६७.३८ ॥
स्ववासिनीं कुमारीं च रोगिणीं गुर्विणीं तथा ।
अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥ ६७.३९ ॥
अदत्त्वा यस्तु एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः ।
भुञ्जानो न स जानाति श्वगृध्रैर्जग्धिमात्मनः ॥ ६७.४० ॥
भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु चैव हि ।
भुञ्जीयातां ततः पश्चादवशिष्टं तु दंपती ॥ ६७.४१ ॥
देवान् पितॄन्मनुष्यांश्च भृत्यान् गृह्याश्च देवताः ।
पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ॥ ६७.४२ ॥
अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ ६७.४३ ॥
स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा ।
न चाप्नोति गृही लोकान् यथा त्वतिथिपूजनात् ॥ ६७.४४ ॥
सायं प्रातस्त्वतिथये प्रदद्यादासनोदके ।
अन्नं चैव यथाशक्त्या सत्कृत्य विधिपूर्वकम् ॥ ६७.४५ ॥
प्रतिश्रयं तथा शय्यां पादाभ्यङ्गं सदीपकम् ।
प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् ॥ ६७.४६ ॥