परनिपानेषु न स्नानमाचरेत् ॥ ६४.१ ॥
आचरेत्पञ्च पिण्डानुद्धृत्यापस्तदापदि ॥ ६४.२ ॥
नाजीर्णे ॥ ६४.३ ॥
न चातुरः ॥ ६४.४ ॥
न नग्नः ॥ ६४.५ ॥
न रात्रौ ॥ ६४.६ ॥
राहुदर्शनवर्जम् ॥ ६४.७ ॥
न संध्ययोः ॥ ६४.८ ॥
प्रातःस्नानशीलोऽरुणताम्रां प्राचीमालोक्य स्नायात् ॥ ६४.९ ॥
स्नातः शिरो नावधुनेत् ॥ ६४.१० ॥
नाङ्गेभ्यस्तोयमुद्धरेत् ॥ ६४.११ ॥
न तैलवत्संस्पृशेत् ॥ ६४.१२ ॥
नाप्रक्षालितं पूर्वधृतं वसनं बिभृयात् ॥ ६४.१३ ॥
स्नात एव सोष्णीषे धौते वाससी बिभृयात् ॥ ६४.१४ ॥
न म्लेच्छान्त्यजपतितैः सह संभाषणं कुर्यात् ॥ ६४.१५ ॥
स्नायात्प्रस्रवणदेवखातसरोवरेषु ॥ ६४.१६ ॥
उद्धृतात्भूमिष्ठमुदकं पुण्यं, स्थावरात्प्रस्रवत्, तस्मान्नादेयं, तस्मादपि साधुपरिगृहीतं, सर्वत एव गाङ्गम् ॥ ६४.१७ ॥
मृत्तोयैः कृतमलापकऋषोऽप्सु निमज्ज्योपविश्यापो हि ष्ठेति तिसृभिर्हिरण्यवर्णेति चतसृभिरिदमापः प्रवहतेति च तीर्थमभिमन्त्रयेत् ॥ ६४.१८ ॥
ततोऽप्सु निमग्नस्त्रिरघमर्षणं जपेत् ॥ ६४.१९ ॥
तद्विष्णोः परमं पदमिति वा ॥ ६४.२० ॥
द्रुपदां सावित्रीं च ॥ ६४.२१ ॥
युञ्जते मन इत्यनुवाकं वा ॥ ६४.२२ ॥
पुरुषसूक्तं वा ॥ ६४.२३ ॥
स्नातश्चार्द्रवासा देवपितृतर्पणमम्भःस्थ एव कुर्यात् ॥ ६४.२४ ॥
परिवर्तितवासाश्चेत्तीर्थमुत्तीर्य ॥ ६४.२५ ॥
अकृत्वा देवपितृतर्पणं स्नानशाटीं न पीडयेत् ॥ ६४.२६ ॥
स्नात्वाचम्य विधिवदुपस्पृशेत् ॥ ६४.२७ ॥
पुरुषसूक्तेन प्रत्यृचं पुरुषाय पुष्पानि दद्यात् ॥ ६४.२८ ॥
उदकाञ्जलींश्च ॥ ६४.२९ ॥
आदावेव दैवेन तीर्थेन देवानां तर्पणं कुर्यात् ॥ ६४.३० ॥
तदनन्तरं पित्र्येण पितॄणाम् ॥ ६४.३१ ॥
तत्रादौ स्ववंश्यानां तर्पणं कुर्यात् ॥ ६४.३२ ॥
ततः संबन्धिबान्धवानाम् ॥ ६४.३३ ॥
ततः सुहृदाम् ॥ ६४.३४ ॥
एवं नित्यस्नायी स्यात् ॥ ६४.३५ ॥
स्नातश्च पवित्राणि यथाशक्ति जपेत् ॥ ६४.३६ ॥
विशेषतः सावित्रीम् ॥ ६४.३७ ॥
पुरुषसूक्तं च ॥ ६४.३८ ॥
नैताभ्यामधिकमस्ति ॥ ६४.३९ ॥
स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।
पवित्राणां तथा जप्ये दाने च विधिबोधिते ॥ ६४.४० ॥
अलक्स्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।
अब्मात्रेणाभिषिक्तस्य नश्यन्त इति धारणा ॥ ६४.४१ ॥
याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति ।
नित्यस्नानेन पूयन्ते येऽपि पापकृतो नराः ॥ ६४.४२ ॥