०६२

अथ द्विजातीनां कनीनिकामूले प्राजापत्यं नाम तीर्थम् ॥ ६२.१ ॥

अङ्गुष्ठमूले ब्राह्मम् ॥ ६२.२ ॥

अङ्गुल्यग्रे दैवम् ॥ ६२.३ ॥

तर्जनीमूले पित्र्यम् ॥ ६२.४ ॥

अनग्न्युष्णाभिरफेनिलाभिः अशूद्रैककरावर्जिताभिरक्षाराभिरद्भिः शुचौ देशे स्वासीनोऽन्तर्जानु प्राङ्मुखश्चोदङ्मुखो वा तन्मनाः सुमनाश्चाचामेत् ॥ ६२.५ ॥

ब्राह्मेण तीर्थेन त्रिराचामेत् ॥ ६२.६ ॥

द्विः प्रमृज्यात् ॥ ६२.७ ॥

खान्यद्भिर्मूर्धानं हृदयं स्पृशेत् ॥ ६२.८ ॥

हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः ।
शुध्येरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ ६२.९ ॥