०५९

गृहाश्रमी वैवाहिकाग्नौ पाकयज्ञान् कुर्यात् ॥ ५९.१ ॥

सायं प्रातश्चाग्निहोत्रम् ॥ ५९.२ ॥

*देवताभ्यो जुहुयात्[देवाताभ्यो] ॥ ५९.३ ॥

चन्द्रार्कसंनिकर्षविप्रकर्षयोर्दर्शपूर्णमासाभ्यां यजेत ॥ ५९.४ ॥

प्रत्ययनं पशुना ॥ ५९.५ ॥

शरद्ग्रीष्मयोश्च आग्रयणेन ॥ ५९.६ ॥

व्रीहियवयोर्वा पाके ॥ ५९.७ ॥

त्रैवार्षिकाभ्यधिकान्नः ॥ ५९.८ ॥

प्रत्यब्दं सोमेन ॥ ५९.९ ॥

वित्ताभावे इष्ट्या वैश्वानर्या ॥ ५९.१० ॥

यज्ञार्थं भिक्षितमवाप्तमर्थं सकलमेव वितरेत् ॥ ५९.११ ॥

सायं प्रातर्वैश्वदेवं जुहुयात् ॥ ५९.१२ ॥

भिक्षां च भिक्षवे दद्यात् ॥ ५९.१३ ॥

अर्चितभिक्षादानेन गोदानफलमाप्नोति ॥ ५९.१४ ॥

भिक्ष्वभावे ग्रासमात्रं गवां दद्यात् ॥ ५९.१५ ॥

वह्नौ वा प्रक्षिपेत् ॥ ५९.१६ ॥

भुक्तेऽप्यन्ने विद्यमाने न भिक्षुकं प्रत्याचक्षीत ॥ ५९.१७ ॥

कण्डनी पेषणी चुल्ली उदकुम्भ उपस्कर इति पञ्च सूना गृहस्थस्य ॥ ५९.१८ ॥

तन्निष्कृत्यर्थं च ब्रह्मदेवभूतपितृनरयज्ञान् कुर्यात् ॥ ५९.१९ ॥

स्वाध्यायो ब्रह्मयज्ञः ॥ ५९.२० ॥

होमो दैवः ॥ ५९.२१ ॥

पितृतर्पणं पित्र्यः ॥ ५९.२२ ॥

बलिर्भौतः ॥ ५९.२३ ॥

नृयज्ञश्चातिथिपूजनम् ॥ ५९.२४ ॥

देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ५९.२५ ॥

ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात् ।
तस्मादभ्यागतानेतान् गृहस्थो नावमानयेत् ॥ ५९.२६ ॥

गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
प्रददाति गृहस्थश्च तस्माच्छ्रेष्ठो गृहाश्रमी ॥ ५९.२७ ॥

ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।
आशासते कुडुम्बिभ्यस्तस्माच्छ्रेष्ठो गृहाश्रमी ॥ ५९.२८ ॥

त्रिवर्गसेवां सततान्नदानं सुरार्चनं ब्राह्मणपूजनं च ।
स्वाध्यायसेवां पितृतर्पणं च कृत्वा गृही शक्रपदं प्रयाति ॥ ५९.२९ ॥