०५८

अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति ॥ ५८.१ ॥

शुक्लः शबलोऽसितश्च ॥ ५८.२ ॥

शुक्लेनार्थेन यद्+और्ध्वदेहिकं करोति तेनास्य देवत्वमासादयति ॥ ५८.३ ॥

यच्छबलेन तन्मानुष्यम् ॥ ५८.४ ॥

यत्कृष्णेन तत्तिर्यक्त्वम् ॥ ५८.५ ॥

स्ववृत्त्युपार्जितं सर्वेषां शुक्लम् ॥ ५८.६ ॥

अनन्तरवृत्त्युपात्तं शबलम् ॥ ५८.७ ॥

एकान्तरितवृत्त्युपात्तं च कृष्णम् ॥ ५८.८ ॥

क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया ।
अविशेषेण सर्वेषां धनं शुक्लमुदाहृतम् ॥ ५८.९ ॥

उत्कोचशुल्कसंप्राप्तमविक्रेयस्य विक्रयैः ।
कृतोपकारादाप्तं च शबलं समुदाहृतम् ॥ ५८.१० ॥

पार्श्विकद्यूतचौर्याप्त प्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ ५८.११ ॥

यथाविधेन द्रव्येण यत्किंचित्कुरुते नरः ।
तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥ ५८.१२ ॥