अथ त्याज्याः ॥ ५७.१ ॥
व्रात्याः ॥ ५७.२ ॥
पतिताः ॥ ५७.३ ॥
त्रिपुरुषं मातृतः पितृतश्चाशुद्धाः ॥ ५७.४ ॥
सर्व एवाभोज्याश्चाप्रतिग्राह्याः ॥ ५७.५ ॥
अप्रतिग्राह्येभ्यश्च प्रतिग्रहप्रसङ्गं वर्जयेत् ॥ ५७.६ ॥
प्रतिग्रहेण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति ॥ ५७.७ ॥
द्रव्याणां वाविज्ञाय प्रतिग्रहविधिं यः प्रतिग्रहं कुर्यात्स दात्रा सह निमज्जति ॥ ५७.८ ॥
प्रतिग्रहसमर्थश्च यः प्रतिग्रहं वर्जयेत्स दातृलोकमवाप्नोति ॥ ५७.९ ॥
एधोदकमूलफलाभयामिषमधुशय्यासनगृहपुष्पदधिशाकंश्चाभ्युद्यतान्न निर्णुदेत् ॥ ५७.१० ॥
आहूयाभ्युद्यतां भिक्षां पुरस्तादनुचोदिताम् ।
ग्राह्यां प्रजापतिर्मेने अपि दुष्कृतकर्मणः ॥ ५७.११ ॥
नाश्नन्ति पितरस्तस्य दश वर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ ५७.१२ ॥
गुरून् भृत्यानुज्जिहीर्षुरर्चिष्यन् पितृदेवताः ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ ५७.१३ ॥
एतेष्वपि च कार्येषु समर्थस्तत्प्रतिग्रहे ।
नादद्यात्कुलटाषण्ढ- पतितेभ्यस्तथा द्विषः ॥ ५७.१४ ॥
गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् ।
आत्मनो वृत्तिमन्विच्छन् गृह्णीयात्साधुतः सदा ॥ ५७.१५ ॥
अर्धिकः कुलमित्रं च दासगोपालनापिताः ।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ ५७.१६ ॥