०५६

अथाथः सर्ववेदपवित्राणि भवन्ति ॥ ५६.१ ॥

येषां जप्यैश्च होमैश्च द्विजातयः पापेभ्यः पूयन्ते ॥ ५६.२ ॥

अघमर्षणम् ॥ ५६.३ ॥

देवकृतम् ॥ ५६.४ ॥

शुद्धवत्यः ॥ ५६.५ ॥

तरत्समन्दीयम् ॥ ५६.६ ॥

कूश्माण्ड्यः ॥ ५६.७ ॥

पावमान्यः ॥ ५६.८ ॥

दुर्गासावित्री ॥ ५६.९ ॥

अतीषङ्गाः ॥ ५६.१० ॥

पदस्तोमाः ॥ ५६.११ ॥

समानि व्याहृतयः ॥ ५६.१२ ॥

भारुण्डाणि ॥ ५६.१३ ॥

चन्द्रसाम ॥ ५६.१४ ॥

पुरुषव्रते सामनी ॥ ५६.१५ ॥

अब्लिङ्गम् ॥ ५६.१६ ॥

बार्हस्पत्यम् ॥ ५६.१७ ॥

गोसूक्तम् ॥ ५६.१८ ॥

अश्वसूक्तम् ॥ ५६.१९ ॥

सामनी चन्द्रसूक्ते च ॥ ५६.२० ॥

शतरुद्रियम् ॥ ५६.२१ ॥

अथर्वशिरः ॥ ५६.२२ ॥

त्रिसुपर्णम् ॥ ५६.२३ ॥

महाव्रतम् ॥ ५६.२४ ॥

नारायणीयम् ॥ ५६.२५ ॥

पुरुषसूक्तं च ॥ ५६.२६ ॥

त्रीण्याज्यदोहानि रथन्तरं च अग्निव्रतं वामदेव्यं बृहच्च ।
एतानि गीतानि पुनाति जन्तून् जातिस्मरत्वं लभते यदीच्छेत् ॥ ५६.२७ ॥