०५५

अथ रहस्यप्रायश्चित्तानि भवन्ति ॥ ५५.१ ॥

स्रवन्तीमासाद्य स्नातः प्रत्यहं षोडश प्राणायामान् सलक्षणान् कृत्वैककालं हविष्याशी मासेन ब्रह्महा पूतो भवति ॥ ५५.२ ॥

कर्मणोऽन्ते पयस्विनीं गां दद्यात् ॥ ५५.३ ॥

व्रतेनाघमर्षणेन च सुरापः पूतो भवति ॥ ५५.४ ॥

गायत्रीदशसाहस्रजपेन सुवर्णस्तेयकृत् ॥ ५५.५ ॥

त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः ॥ ५५.६ ॥

यथाश्वमेधः क्रतुराट्सर्वपापापनोदकः ।
तथाघमर्षणं सूक्तं सर्वपापापनोदकम् ॥ ५५.७ ॥

प्राणायामं द्विजः कुर्यात्सर्वपापापनुत्तये ।
दह्यन्ते सर्वपापानि प्राणायामैर्द्विजस्य तु ॥ ५५.८ ॥

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ५५.९ ॥

अकारं चाप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥ ५५.१० ॥

त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् ।
तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ ५५.११ ॥

एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् ।
संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥ ५५.१२ ॥

सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः ।
महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥ ५५.१३ ॥

एतत्त्रयविसंयुक्तः काले च क्रियया स्वया ।
विप्रक्षत्रियविड्जातिर्गर्हणां याति साधुषु ॥ ५५.१४ ॥

ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।
त्रिपदा चैव गायत्री विज्ञेया ब्राह्मणो मुखम् ॥ ५५.१५ ॥

योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः ।
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ ५५.१६ ॥

एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः ।
सावित्र्यास्तु परं नान्यन्मौनात्सत्यं विशिष्यते ॥ ५५.१७ ॥

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।
अक्षरं त्वक्षरं ज्ञेयं ब्रह्मा चैव प्रजापतिः ॥ ५५.१८ ॥

विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः ॥ ५५.१९ ॥

ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।
ते सर्वे जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ ५५.२० ॥

जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ ५५.२१ ॥