अथागम्यागमने महाव्रतविधानेनाब्दं चीरवासा वने प्राजापत्यं कुर्यात् ॥ ५३.१ ॥
परदारगमने च ॥ ५३.२ ॥
गोव्रतं गोगमने च ॥ ५३.३ ॥
पुंस्ययोनावाकाशेऽप्सु दिवा गोयाने च सवासाः स्नानमाचरेत् ॥ ५३.४ ॥
चण्डालीगमने तत्साम्यमाप्नुयात् ॥ ५३.५ ॥
अज्ञानतश्चान्द्रायणद्वयं कुर्यात् ॥ ५३.६ ॥
पशुवेश्यागमने च प्राजापत्यम् ॥ ५३.७ ॥
सकृद्दुष्टा च स्त्री यत्पुरुषस्य परदारे तद्व्रतं कुर्यात् ॥ ५३.८ ॥
यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ।
तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ ५३.९ ॥