सुवर्णस्तेयकृद्राज्ञे कर्माचक्षाणो मुसलमर्पयेत् ॥ ५२.१ ॥
वधात्त्यागाद्वा प्रयतो भवति ॥ ५२.२ ॥
महाव्रतं द्वादशाब्दानि वा कुर्यात् ॥ ५२.३ ॥
निक्षेपापहारी च ॥ ५२.४ ॥
धान्यधनापहारी च कृच्छ्रमब्दम् ॥ ५२.५ ॥
मनुष्यस्त्रीकूपक्षेत्रवापीनामपहारे चान्द्रायणम् ॥ ५२.६ ॥
द्रव्याणामल्पसाराणां सांतपनम् ॥ ५२.७ ॥
भक्ष्यभोज्ययानशय्यासनपुष्पमूलफलानां पञ्चगव्यपानम् ॥ ५२.८ ॥ तृणकाष्ठद्रुमशुष्कान्नगुडवस्त्रचर्मामिषाणां त्रिरात्रमुपवसेत् ॥ ५२.९ ॥
मणिमुक्ताप्रवालताम्ररजतायःकांस्यानां द्वादशाहं कणानश्नीयात् ॥ ५२.१० ॥
कार्पासकीटजोर्णाद्यपहरणे त्रिरात्रं पयसा वर्तेत ॥ ५२.११ ॥
द्विशफैकशफापहरणे द्विरात्रमुपवसेत् ॥ ५२.१२ ॥
पक्षिगन्धौषधिरज्जुवैदलानामपहरणे दिनमुपवसेत् ॥ ५२.१३ ॥
दत्त्वैवापहृतं द्रव्यं धनिकस्याप्युपायतः ।
प्रायश्चित्तं ततः कुर्यात्कल्मषस्यापनुत्तये ॥ ५२.१४ ॥
यद्यत्परेभ्यस्त्वादद्यात्पुरुषस्तु निरङ्कुशः ।
तेन तेन विहीनः स्याद्यत्र यत्राभिजायते ॥ ५२.१५ ॥
जीवितं धर्मकामौ च धने यस्मात्प्रतिष्ठितौ ।
तस्मात्सर्वप्रयत्नेन धनहिंसां विवर्जयेत् ॥ ५२.१६ ॥
प्राणिहिंसापरो यस्तु धनहिंसापरस्तथा ।
महद्दुःखमवाप्नोति धनहिंसापरस्तयोः ॥ ५२.१७ ॥