सुरापः सर्वकर्मवर्जितः कणान् वर्षमश्नीयात् ॥ ५१.१ ॥
मलानां मद्यानां चान्यतमस्य प्राशने चान्द्रायणं कुर्यात् ॥ ५१.२ ॥
लशुनपलाण्डुगृञ्जनैतद्गन्धिविड्वराहग्रामकुक्कुटवानरगोमांसभक्षणे च ॥ ५१.३ ॥
सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते भूयः संस्कारं कुर्यात् ॥ ५१.४ ॥
वपनमेखलादण्डभैक्ष्यचर्याव्रतानि पुनःसंस्कारकर्मणि वर्जनीयानि ॥ ५१.५ ॥
शशकशल्यकगोधाखड्गकूर्मवर्जं पञ्चनखमांसाशने सप्तरात्रमुपवसेत् ॥ ५१.६ ॥
गणगणिकास्तेनगायनान्नानि भुक्त्वा सप्तरात्रं पयसा वर्तेत ॥ ५१.७ ॥
तक्षकान्नं चर्मकर्तुश्च ॥ ५१.८ ॥
वार्धुषिककदर्यदीक्षितबद्धनिगडाभिशस्तषण्ढानां च ॥ ५१.९ ॥
पुंश्चलीदाम्भिकचिकित्सकलुब्धकक्रूरोग्रोच्छिष्टभोजिनां च ॥ ५१.१० ॥
अवीरस्त्री सुवर्णकारसपत्नपतितानां च ॥ ५१.११ ॥
पिशुनानृतवादिक्षतधर्मात्मरसविक्रयिणां च ॥ ५१.१२ ॥
शैलूषतन्तुवायकृतघ्नरजकानां च ॥ ५१.१३ ॥
कर्मकारनिषादरङ्गावतारिवैणशस्त्रविक्रयिणां च ॥ ५१.१४ ॥
श्वजीविशौण्डिकतैलिकचैलनिर्णेजकानां च ॥ ५१.१५ ॥
रजस्वलासहोपपतिवेश्मानां च ॥ ५१.१६ ॥
भ्रूणघ्नावेक्षितमुदक्यासंस्पृष्टं पतत्रिणावलीढं शुना संस्पृष्टं गवाघ्रातं च ॥ ५१.१७ ॥
कामतः पदा स्पृष्टमवक्षुतम् ॥ ५१.१८ ॥
मत्तक्रुद्धातुराणां च ॥ ५१.१९ ॥
अनर्चितं वृथा मांसं च ॥ ५१.२० ॥
पाठीनरोहितराजीवसिंहतुण्डशकुलवर्जं सर्वमत्स्यमांसाशने त्रिरात्रमुपवसेत् ॥ ५१.२१ ॥
सर्वजलजमांसाशने च ॥ ५१.२२ ॥
आपः सुराभाण्डस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत् ॥ ५१.२३ ॥
मद्यभाण्डस्थाश्च पञ्चरात्रम् ॥ ५१.२४ ॥
सोमपः सुरापस्याघ्राय गन्धमुदकमग्नस्त्रिरघमर्षणं जप्त्वा घृतप्राशनमाचरेत् ॥ ५१.२५ ॥
खरोष्ट्रकाकमांसाशने चान्द्रायणं कुर्यात् ॥ ५१.२६ ॥
प्राश्याज्ञातं सूनास्थं शुष्कमांसं च ॥ ५१.२७ ॥
क्रव्यादमृगपक्षिमांसाशने तप्तकृच्छ्रम् ॥ ५१.२८ ॥
कलविङ्कप्लवचक्रवाकहंसरज्जुदालसारसदात्यूहशुकसारिकाबकबलाकाकोकिलखञ्जरीटाशने त्रिरात्रमुपवसेत् ॥ ५१.२९ ॥
एकशफोभयदन्ताशने च ॥ ५१.३० ॥
तित्तिरिकपिञ्जललावकवर्तिकामयूरवर्जं सर्वपक्षिमांसाशने चाहोरात्रम् ॥ ५१.३१ ॥
कीटाशने दिनमेकं ब्रह्मसुवर्चलां पिबेत् ॥ ५१.३२ ॥
शुनां मांसाशने च ॥ ५१.३३ ॥
छत्राककवकाशने सांतपनम् ॥ ५१.३४ ॥
यवगोधूमपयोविकारं स्नेहाक्तं शुक्तं खाण्डवं च वर्जयित्वा यत्पर्युषितं तत्प्राश्योपवसेत् ॥ ५१.३५ ॥
व्रश्चनामेध्यप्रभवान् लोहितांश्च वृक्षनिर्यासान् ॥ ५१.३६ ॥
शालूकवृथाकृसरसंयावपायसापूपशष्कुलीदेवान्नानि हवींषि च ॥ ५१.३७ ॥
गोअजामहिषीवर्जं सर्वपयांसि च ॥ ५१.३८ ॥
अनिर्दशाहानि तान्यपि ॥ ५१.३९ ॥
स्यन्दिनीसन्धिनीविवत्साक्षीरं च ॥ ५१.४० ॥
अमेध्यभुजश्च ॥ ५१.४१ ॥
दधिवर्जं केवलानि च शुक्तानि ॥ ५१.४२ ॥
ब्रह्मचर्याश्रमी श्राद्धभोजने त्रिरात्रमुपवसेत् ॥ ५१.४३ ॥
दिनमेकं चोदके वसेत् ॥ ५१.४४ ॥
मधुमांसाशने प्राजापत्यम् ॥ ५१.४५ ॥
बिडालकाकनकुलाखूच्छिष्टभक्षणे ब्रह्मसुवर्चलां पिबेत् ॥ ५१.४६ ॥
श्वोच्छिष्टाशने दिनमेकमुपोषितः पञ्चगव्यं पिबेत् ॥ ५१.४७ ॥
पञ्चनखविण्मूत्राशने सप्तरात्रम् ॥ ५१.४८ ॥
आमश्राद्धाशने त्रिरात्रं पयसा वर्तेत ॥ ५१.४९ ॥
ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रम् ॥ ५१.५० ॥
वैश्योच्छिष्टाशने पञ्चरात्रम् ॥ ५१.५१ ॥
राजन्योच्छिष्टाशने त्रिरात्रम् ॥ ५१.५२ ॥
ब्राह्मणोच्छिष्टाशने त्वेकाहम् ॥ ५१.५३ ॥
राजन्यः शूद्रोच्छिष्टाशी पञ्चरात्रम् ॥ ५१.५४ ॥
वैश्योच्छिष्टाशी त्रिरात्रम् ॥ ५१.५५ ॥
वैश्यः शूद्रोच्छिष्टाशी च ॥ ५१.५६ ॥
चण्डालान्नं भुक्त्वा त्रिरात्रमुपवसेत् ॥ ५१.५७ ॥
सिद्धं भुक्त्वा पराकः ॥ ५१.५८ ॥
असंस्कृतान् पशून्मन्त्रैर्नाद्याद्विप्रः कथंचन ।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ ५१.५९ ॥
यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् ।
वृथा पशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ॥ ५१.६० ॥
यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा ।
यज्ञो हि भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ ५१.६१ ॥
न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः ।
यादृशं भवति प्रेत्य वृथा मांसानि खादतः ॥ ५१.६२ ॥
ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥ ५१.६३ ॥
मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।
अत्रैव पशवो हिंस्या नान्यत्रेति कथंचन ॥ ५१.६४ ॥
यज्ञार्थेषु पशून् हिंसन् वेदतत्त्वार्थविद्द्विजः ।
आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिम् ॥ ५१.६५ ॥
गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः ।
नावेदविहितां हिंसामापद्यपि समाचरेत् ॥ ५१.६६ ॥
या वेदविहिता हिंसा नियतास्मिंश्चराचरे ।
अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ ५१.६७ ॥
योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ।
स जीवंश्च मृतश्चैव न क्वचित्सुखमेधते ॥ ५१.६८ ॥
यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति ।
स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ ५१.६९ ॥
यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च ।
तदेवाप्नोत्ययत्नेन यो हिनस्ति न किंचन ॥ ५१.७० ॥
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ ५१.७१ ॥
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ५१.७२ ॥
न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ ५१.७३ ॥
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ ५१.७४ ॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
अनभ्यर्च्य पितॄन् देवान्न ततोऽन्योऽस्त्यपुण्यकृत् ॥ ५१.७५ ॥
वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥ ५१.७६ ॥
फलमूलाशनैर्दिव्यैर्मुन्यन्नानां च भोजनैः ।
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥ ५१.७७ ॥
मां स भक्षयितामुत्र यस्य मांसमिहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ ५१.७८ ॥