०५०

वने पर्णकुटीं कृत्वा वसेत् ॥ ५०.१ ॥

त्रिषवणं स्नायात् ॥ ५०.२ ॥

स्वकर्म चाचक्षाणो ग्रामे ग्रामे भैक्ष्यमाचरेत् ॥ ५०.३ ॥

तृणशायी च स्यात् ॥ ५०.४ ॥

एतन्महाव्रतम् ॥ ५०.५ ॥

ब्राह्मणं हत्वा द्वादशसंवत्सरं कुर्यात् ॥ ५०.६ ॥

यागस्थं क्षत्रियं वैश्यं वा ॥ ५०.७ ॥

गुर्विणीं रजस्वलां वा ॥ ५०.८ ॥

अत्रिगोत्रां वा नारीम् ॥ ५०.९ ॥

मित्रं वा ॥ ५०.१० ॥

नृपतिवधे महाव्रतमेव द्विगुणं कुर्यात् ॥ ५०.११ ॥

पादोनं क्षत्रियवधे ॥ ५०.१२ ॥

अर्धं वैश्यवधे ॥ ५०.१३ ॥

तदर्धं शूद्रवधे ॥ ५०.१४ ॥

सर्वेषु शवशिरोध्वजी स्यात् ॥ ५०.१५ ॥

मासमेकं कृतवापनो गवामनुगमनं कुर्यात् ॥ ५०.१६ ॥

तास्वासीनास्वासीत ॥ ५०.१७ ॥

स्थितासु स्थितश्च स्यात् ॥ ५०.१८ ॥

सन्नां चोद्धरेत् ॥ ५०.१९ ॥

भयेभ्यश्च रक्षेत् ॥ ५०.२० ॥

तासां शीतादित्राणमकृत्वा नात्मनः कुर्यात् ॥ ५०.२१ ॥

गोमूत्रेण स्नायात् ॥ ५०.२२ ॥

गोरसैश्च वर्तेत ॥ ५०.२३ ॥

एतद्गोव्रतं गोवधे कुर्यात् ॥ ५०.२४ ॥

गजं हत्वा पञ्च नीलवृषभान् दद्यात् ॥ ५०.२५ ॥

तुरगं वासः ॥ ५०.२६ ॥

एकहायनमनड्वाहं खरवधे ॥ ५०.२७ ॥

मेषाजवधे च ॥ ५०.२८ ॥

सुवर्णकृष्णलमुष्ट्रवधे ॥ ५०.२९ ॥

श्वानं हत्वा त्रिरात्रमुपवसेत् ॥ ५०.३० ॥

हत्वा मूषकमार्जारनकुलमण्डूकडुण्डुभाजगराणामन्यतममुपोषितः कृसरं ब्राह्मणं भोजयित्वा लोहदण्डं दक्षिणां दद्यात् ॥ ५०.३१ ॥

गोधोलूककाकझषवधे त्रिरात्रमुपवसेत् ॥ ५०.३२ ॥

हंसबकबलाकामद्गुवानरश्येनभासचक्रवाकानामन्यतमं हत्वा ब्राह्मणाय गां दद्यात् ॥ ५०.३३ ॥

सर्पं हत्वाभ्रीं कार्ष्णायसीं दद्यात् ॥ ५०.३४ ॥

षण्ढं हत्वा पलालभारकम् ॥ ५०.३५ ॥

वराहं हत्वा घृतकुम्भम् ॥ ५०.३६ ॥

तित्तिरिं तिलद्रोणम् ॥ ५०.३७ ॥

शुकं द्विहायनवत्सम् ॥ ५०.३८ ॥

क्रौञ्चं त्रिहायनम् ॥ ५०.३९ ॥

क्रव्यादमृगवधे पयस्विनीं गां दद्यात् ॥ ५०.४० ॥

अक्रव्यादमृगवधे वत्सतरीम् ॥ ५०.४१ ॥

अनुक्तमृगवधे त्रिरात्रं पयसा वर्तेत ॥ ५०.४२ ॥

पक्षिवधे नक्ताशी स्यात् ॥ ५०.४३ ॥

रूप्यमाषं वा दद्यात् ॥ ५०.४४ ॥

हत्वा जलचरमुपवसेत् ॥ ५०.४५ ॥

अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे ।
पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ ५०.४६ ॥

किंचिदेव तु विप्राय दद्यादस्थिमतां वधे ।
अनस्ह्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ ५०.४७ ॥

फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ ५०.४८ ॥

अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ ५०.४९ ॥

कृष्टजानामोषधीनां जातानां च स्वयं वने ।
वृथालम्भेऽनुगच्छेद्गां दिनमेकं पयोव्रतः ॥ ५०.५० ॥