मार्गशीर्षशुक्लैकादश्यामुपोषितो द्वादश्यां भगवन्तं श्रीवासुदेवमर्चयेत् ॥ ४९.१ ॥
पुष्पधूपानुलेपनदीपनैवेद्यैः वह्निब्राह्मणतर्पणैश्च ॥ ४९.२ ॥
व्रतमेतत्संवत्सरं कृत्वा पापेभ्यः पूतो भवति ॥ ४९.३ ॥
यावज्जीवं कृत्वा श्वेतद्वीपमाप्नोति ॥ ४९.४ ॥
उभयपक्षद्वादशीष्वेवं संवत्सरेण स्वर्गलोकमाप्नोति ॥ ४९.५ ॥
यावज्जीवं कृत्वा विष्णुलोकम् ॥ ४९.६ ॥
एवमेव पञ्चदशीष्वपि ॥ ४९.७ ॥
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च ।
योगभूतं परिचरन् केशवं महदाप्नुयात् ॥ ४९.८ ॥
दृश्येते सहितौ यस्यां दिवि चन्द्रबृहस्पती ।
पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा ॥ ४९.९ ॥
तस्यां दानोपवासाद्यमक्षयं परिकीर्तितम् ।
तथैव द्वादशी शुक्ला या स्याच्छ्रवणसंयुता ॥ ४९.१० ॥