अथ कर्मभिरात्मकृतैर्गुरुमात्मानं मन्येतात्मार्थे प्रसृतियावकं श्रपयेत् ॥ ४८.१ ॥
न ततोऽग्नौ जुहुयात् ॥ ४८.२ ॥
न चात्र बलिकर्म ॥ ४८.३ ॥
अशृतं श्रप्यमाणं शृतं चाभिमन्त्रयेत् ॥ ४८.४ ॥
श्रप्यमाणे रक्षां कुर्यात् ॥ ४८.५ ॥
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् ।
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥ ४८.६ ॥
इति दर्भान् बध्नाति ॥ ४८.६ ॥
शृतं च तमश्नीयात्पात्रे निषिच्य ॥ ४८.७ ॥
ये देवा मनोजाता मोनोजुषः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेत्यात्मनि जुहुयात् ॥ ४८.८ ॥
अथाचान्तो नाभिमालभेत ॥ ४८.९ ॥
स्नाताः पीता भवत यूयमापोऽस्माकमुदरे यवाः, ता अस्मभ्यमनमीवा अयक्ष्मा अनागसः सन्तु देवीरमृतामृतावृध इति ॥ ४८.१० ॥
त्रिरात्रं मेधार्थी ॥ ४८.११ ॥
षड्रात्रं पापकृत् ॥ ४८.१२ ॥
सप्तरात्रं पीत्वा महापातकिनामन्यतमं पुनाति ॥ ४८.१३ ॥
द्वादशरात्रेण पूर्वपुरुषकृतमपि पापं निर्दहति ॥ ४८.१४ ॥
मासं पीत्वा सर्वपापानि ॥ ४८.१५ ॥
गोनिहारमुक्तानां यवानामेकविंशतिरात्रं च ॥ ४८.१६ ॥
यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।
निर्णोदः सर्वपापानां पवित्रमृषिभिर्धृतम् ॥ ४८.१७ ॥
घृतं यवा मधु यवा आपो वा अमृतं यवाः ।
सर्वे पुनीत मे पापं यन्मे किंचन दुष्कृतम् ॥ ४८.१८ ॥
वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् ।
अलक्ष्मीं कालकर्णीं च नाशयध्वं यवा मम ॥ ४८.१९ ॥
श्वसूकरावलीढं च उच्छिष्टोपहतं च यत् ।
मातापित्रोरशुश्रूषां तत्पुनीध्वं यवा मम ॥ ४८.२० ॥
गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् ।
चौरस्यान्नं नवश्राद्धं पुनीध्वं च यवा मम ॥ ४८.२१ ॥
बालधूर्तमधर्मं च राजद्वारकृतं च यत् ।
सुवर्णस्तैन्यमव्रात्यमयाज्यस्य च याजनम् ।
ब्राह्मणानां परीवादं पुनीध्वं च यवा मम ॥ ४८.२२ ॥