अथ चान्द्रायणम् ॥ ४७.१ ॥
ग्रासानविकारानश्नीयात् ॥ ४७.२ ॥
तांश्चन्द्रकलाभिवृद्धौ वर्धयेत्, हानौ ह्रासयेत्, अमावास्यायां नाश्नीयात् । एष चान्द्रायणो यवमध्यः ॥ ४७.३ ॥
पिपीलिकामध्यो वा ॥ ४७.४ ॥
यस्यामावास्या मध्ये भवति स पिपीलिकामध्यः ॥ ४७.५ ॥
यस्य पौर्णमासी स यवमध्यः ॥ ४७.६ ॥
अष्टौ ग्रासान् प्रतिदिवसं मासमश्नीयात्स यतिचान्द्रायणः ॥ ४७.७ ॥
सायं प्रातश्चतुरश्चतुरः स शिशुचान्द्रायणः ॥ ४७.८ ॥
यथा कथंचित्षष्ट्योनां त्रिशतीं मासेनाश्नीयात्स सामान्यचान्द्रायणः ॥ ४७.९ ॥
व्रतमेतत्पुरा भूमि कृत्वा सप्तर्षयोऽमलाः ।
प्राप्तवन्तः परं स्थानं ब्रह्मा रुद्रस्तथैव च ॥ ४७.१० ॥