अथ कृच्छ्राणि भवन्ति ॥ ४६.१ ॥
त्र्यहं नाश्नीयात् ॥ ४६.२ ॥
प्रत्यहं च त्रिषवणं स्नानमाचरेत् ॥ ४६.३ ॥
त्रिः प्रतिस्नानमप्सु मज्जनम् ॥ ४६.४ ॥
मग्नस्त्रिरघमर्षणं जपेत् ॥ ४६.५ ॥
दिवा स्थितस्तिष्ठेत् ॥ ४६.६ ॥
रात्रावासीनः ॥ ४६.७ ॥
कर्मणोऽन्ते पयस्विनीं दद्यात् ॥ ४६.८ ॥
इत्यघ्मर्षणम् ॥ ४६.९ ॥
त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमयाचितमश्नीयात् । एष प्राजापत्यः ॥ ४६.१० ॥
त्र्यहमुष्णाः पिबेदपस्त्र्यहमुष्णं घृतं त्र्यहमुष्णं पयस्त्र्यहं च नाश्नीयादेष तप्तकृच्छ्रः ॥ ४६.११ ॥
एतैरेव शीतैः शीतकृच्छ्रः ॥ ४६.१२ ॥
कृच्छ्रातिकृच्छ्रः पयसा दिवसैकविंशतिक्षपणम् ॥ ४६.१३ ॥
उदकसक्तूनां मासाभ्यवहारेणोदककृच्छ्रः ॥ ४६.१४ ॥
बिसाभ्यवहारेण मूलकृच्छ्रः ॥ ४६.१५ ॥
बिल्वाभ्यवहारेण श्रीफलकृच्छ्रः ॥ ४६.१६ ॥
पद्माक्षैर्वा ॥ ४६.१७ ॥
निराहारस्य द्वादशाहेन पराकः ॥ ४६.१८ ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकान्येकदिवसमश्नीयात् । द्वितीयमुपवसेत् । एतत्सांतपनम् ॥ ४६.१९ ॥
गोमूत्रादिभिः प्रत्यहमभ्यस्तैर्महासांतपनम् ॥ ४६.२० ॥
त्र्यहाभ्यस्तैश्चातिसांतपनम् ॥ ४६.२१ ॥
पिण्याकाचामतक्रोदकसक्तूनामुपवासान्तरितोऽभ्यवहारस्तुलापुरुषः ॥ ४६.२२ ॥
कुशपलाशोदुम्बरपद्मशङ्खपुष्पीवटब्राह्मीसुवर्चलापत्रैः क्वथितस्याम्भसः प्रत्येकं पानेन पर्णकृच्छ्रः ॥ ४६.२३ ॥
कृच्छ्राण्येतानि सर्वाणि कुर्वीत कृतवापनः ।
नित्यं त्रिषवणस्नायी अधःशायी जितेन्द्रियः ॥ ४६.२४ ॥
स्त्रीशूद्रपतितानां च वर्जयेच्चातिभाषणम् ।
पवित्राणि जपेन्नित्यं जुहुयाच्चैव शक्तितः ॥ ४६.२५ ॥