नरकाभिभूतदुःखानां तिर्यक्त्वमुत्तीर्णानां मानुष्येषु लक्षणानि भवन्ति ॥ ४५.१ ॥
कुष्ठ्यतिपातकी ॥ ४५.२ ॥
ब्रह्महा यक्ष्मी ॥ ४५.३ ॥
सुरापः श्यावदन्तकः ॥ ४५.४ ॥
सुवर्णहारी कुनखी ॥ ४५.५ ॥
गुरुतर्ल्पगो दुश्चर्मा ॥ ४५.६ ॥
पूतिनासः पिशुनः ॥ ४५.७ ॥
पूतिवक्त्रः सूचकः ॥ ४५.८ ॥
धान्यचोरोऽङ्गहीनः ॥ ४५.९ ॥
मिश्रचोरोऽतिरिक्ताङ्गः ॥ ४५.१० ॥
अन्नापहारकस्त्वामयावी ॥ ४५.११ ॥
वागपहारको मूकः ॥ ४५.१२ ॥
वस्त्रापहारकः श्वित्री ॥ ४५.१३ ॥
अश्वापहारकः पङ्गुः ॥ ४५.१४ ॥
देवब्राह्मणाक्रोशको मूकः ॥ ४५.१५ ॥
लोलजिह्वो गरदः ॥ ४५.१६ ॥
उन्मत्तोऽग्निदः ॥ ४५.१७ ॥
गुरोः प्रतिकूलोऽपस्मारी ॥ ४५.१८ ॥
गोघ्नस्त्वन्धः ॥ ४५.१९ ॥
दीपापहारकश्च ॥ ४५.२० ॥
काणश्च दीपनिर्वापकः ॥ ४५.२१ ॥
त्रपुचामरसीसकविक्रयी रजकः ॥ ४५.२२ ॥
एकशफविक्रयी मृगव्याधः ॥ ४५.२३ ॥
कुण्डाशी भगास्यः ॥ ४५.२४ ॥
घाण्टिकः स्तेनः ॥ ४५.२५ ॥
वार्धुषिको भ्रामरी ॥ ४५.२६ ॥
मृष्टाश्येकाकी वातगुल्मी ॥ ४५.२७ ॥
समयभेत्ता खल्वाटः ॥ ४५.२८ ॥
श्लीपद्यवकीर्णी ॥ ४५.२९ ॥
परवृत्तिघ्नो दरिद्रः ॥ ४५.३० ॥
परपीडाकरो दीर्घरोगी ॥ ४५.३१ ॥
एवं कर्मविशेषेण जायन्ते लक्षणान्विताः ।
रोगान्वितास्तथान्धाश्च कुब्जखञ्जैकलोचनाः ॥ ४५.३२ ॥
वामना बधिरा मूका दुर्बलाश्च तथापरे ।
तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् ॥ ४५.३३ ॥