०४३

अथ नरकाः ॥ ४३.१ ॥

तामिस्रम् ॥ ४३.२ ॥

अन्धतामिस्रम् ॥ ४३.३ ॥

रौरवम् ॥ ४३.४ ॥

महारौरवम् ॥ ४३.५ ॥

कालसूत्रम् ॥ ४३.६ ॥

महानरकम् ॥ ४३.७ ॥

संजीवनम् ॥ ४३.८ ॥

अवीचि ॥ ४३.९ ॥

तपनम् ॥ ४३.१० ॥

संप्रतापनम् ॥ ४३.११ ॥

संघातकम् ॥ ४३.१२ ॥

काकोलम् ॥ ४३.१३ ॥

कुड्मलम् ॥ ४३.१४ ॥

पूतिमृत्तिकम् ॥ ४३.१५ ॥

लोहशङ्कुः ॥ ४३.१६ ॥

ऋबीसम् ॥ ४३.१७ ॥

विषमपन्थाः ॥ ४३.१८ ॥

कण्टकशाल्मलिः ॥ ४३.१९ ॥

दीपनदी ॥ ४३.२० ॥

असिपत्रवनम् ॥ ४३.२१ ॥

लोहचारकमिति ॥ ४३.२२ ॥

एतेष्वकृतप्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते ॥ ४३.२३ ॥

महापातकिनो मन्वन्तरम् ॥ ४३.२४ ॥

अनुपातकिनश्च ॥ ४३.२५ ॥ उपपातकिनश्चतुर्युगम् ॥ ४३.२६ ॥

कृतसंकरीकरणाश्च संवत्सरसहस्रम् ॥ ४३.२७ ॥

कृतजातिभ्रंशकरणाश्च ॥ ४३.२८ ॥

कृतापात्रीकरणाश्च ॥ ४३.२९ ॥

कृतमलिनीकरणाश्च ॥ ४३.३० ॥

प्रकीर्णपातकिनश्च बहून् वर्षपूगान् ॥ ४३.३१ ॥

कृतपातकिनः पापाः प्राणत्यागादनन्तरम् ।
याम्यं पन्थानमासाद्य दुःखमश्नन्ति दारुणम् ॥ ४३.३२ ॥

यमस्य पुरुषैर्घोरैः कृष्यमाणा यतस्ततः ।
सकृच्छ्रेणानुकारेण नीयमानाश्च ते यथा ॥ ४३.३३ ॥

श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः ।
अग्नितुण्डैर्भक्ष्यमाणा भुजङ्गैर्वृश्चिकैस्तथा ॥ ४३.३४ ॥

अग्निना दह्यमानाश्च तुद्यमानाश्च कण्टकैः ।
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥ ४३.३५ ॥

क्षुधया व्यथमानाश्च घोरैर्व्याघ्रगणैस्तथा ।
पूयशोणितगन्धेन मूर्छमानाः पदे पदे ॥ ४३.३६ ॥

परान्नपानं लिप्सन्तस्ताद्यमानाश्च किंकरैः ।
काककङ्कबकादीनां भीमानां सदृशाननैः ॥ ४३.३७ ॥

क्वचित्तैलेन क्वाथ्यन्ते ताड्यन्ते मुसलैः क्वचित् ।
आयसीषु च वट्यन्ते शिलासु च तथा क्वचित् ॥ ४३.३८ ॥

क्वचिद्वान्तमथाश्नन्ति क्वचित्पूयमसृक्क्वचित् ।
क्वचिद्विष्ठां क्वचिन्मांसं पूयगन्धि सुदारुणम् ॥ ४३.३९ ॥

अन्धकारेषु तिष्ठन्ति दारुणेषु तथा क्वचित् ।
क्रिमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैः सुदारुणैः ॥ ४३.४० ॥

क्वचिच्छीतेन बाध्यन्ते क्वचित्चामेध्यमध्यगाः ।
परस्परमथाश्नन्ति क्वचित्प्रेताः सुदारुणाः ॥ ४३.४१ ॥

क्वचिद्भूतेन ताड्यन्ते लम्बमानास्तथा क्वचित् ।
क्वचित्क्षिप्यन्ति बानौघैरुत्कृत्यन्ते तथा क्वचित् ॥ ४३.४२ ॥

कण्टेषु दत्तपादाश्च भुजङ्गाभोगवेष्टिताः ।
पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ॥ ४३.४३ ॥

भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः ।
कूटागारप्रमाणैश्च शरीरैर्यातनाक्षमैः ॥ ४३.४४ ॥

एवं पातकिनः पापमनुभूय सुदुःखिताः ।
तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च ॥ ४३.४५ ॥