०४१

पक्षिणां जलचराणां जलजानां च घातनम् ॥ ४१.१ ॥

क्रिमिकीटानां च ॥ ४१.२ ॥

मध्यानुगतभोजनम् ॥ ४१.३ ॥

इति मलावहानि ॥ ४१.४ ॥

मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ।
कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं विशोधनम् ॥ ४१.५ ॥