०३८

ब्राह्मणस्य रुजः करणम् ॥ ३८.१ ॥

अघ्रेयमद्ययोर्घ्रातिः ॥ ३८.२ ॥

जैह्म्यम् ॥ ३८.३ ॥

पशुषु मैथुनाचरणम् ॥ ३८.४ ॥

पुंसि च ॥ ३८.५ ॥

इति जातिभ्रंशकराणि ॥ ३८.६ ॥

जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ।
चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ ३८.७ ॥