ब्राह्मणस्य रुजः करणम् ॥ ३८.१ ॥ अघ्रेयमद्ययोर्घ्रातिः ॥ ३८.२ ॥ जैह्म्यम् ॥ ३८.३ ॥ पशुषु मैथुनाचरणम् ॥ ३८.४ ॥ पुंसि च ॥ ३८.५ ॥ इति जातिभ्रंशकराणि ॥ ३८.६ ॥ जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ ३८.७ ॥