०३७

अनृतवचनमुत्कर्षे ॥ ३७.१ ॥

राजगामि पैशुन्यम् ॥ ३७.२ ॥

गुरोश्चालीकनिर्बन्धः ॥ ३७.३ ॥

वेदनिन्दा ॥ ३७.४ ॥

अधीतस्य च त्यागः ॥ ३७.५ ॥

अग्निपितृमातृसुतदाराणां च ॥ ३७.६ ॥

अभोज्यान्नाभक्ष्यभक्षणम् ॥ ३७.७ ॥

परस्वापहरणम् ॥ ३७.८ ॥

परदाराभिगमनम् ॥ ३७.९ ॥

अयाज्ययाजनम् ॥ ३७.१० ॥

विकर्मजीवनम् ॥ ३७.११ ॥

असत्प्रतिग्रहश्च ॥ ३७.१२ ॥

क्षत्रविट्शूद्रगोवधः ॥ ३७.१३ ॥

अविक्रेयविक्रयः ॥ ३७.१४ ॥

परिवित्तितानुजेन ज्येष्ठस्य ॥ ३७.१५ ॥

परिवेदनम् ॥ ३७.१६ ॥

तस्य च कन्यादानम् ॥ ३७.१७ ॥

याजनं च ॥ ३७.१८ ॥

व्रात्यता ॥ ३७.१९ ॥

भृतकाध्यापनम् ॥ ३७.२० ॥

भृतकाच्चाध्ययनादानम् ॥ ३७.२१ ॥

सर्वाकरेष्वधीकारः ॥ ३७.२२ ॥

महायन्त्रप्रवर्तनम् ॥ ३७.२३ ॥

द्रुमगुल्मवल्लीलतौषधीनां हिंसा ॥ ३७.२४ ॥

स्त्र्या जीवनम् ॥ ३७.२५ ॥

अभिचारबलकर्मसु च प्रवृत्तिः ॥ ३७.२६ ॥

आत्मार्थे क्रियारम्भः ॥ ३७.२७ ॥

अनाहिताग्निता ॥ ३७.२८ ॥

देवर्षिपितृऋणानामनपक्रिया ॥ ३७.२९ ॥

असत्शास्त्राभिगमनम् ॥ ३७.३० ॥

नास्तिकता ॥ ३७.३१ ॥

कुशीलवता ॥ ३७.३२ ॥

मद्यपस्त्रीनिषेवणम् ॥ ३७.३३ ॥

इत्युपपातकानि ॥ ३७.३४ ॥

उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः ।
पराकं च तथा कुर्युर्यजेयुर्गोसवेन वा ॥ ३७.३६ ॥