०३६

यागस्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश्चान्तर्वत्न्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानीति ॥ ३६.१ ॥

कौटसाक्ष्यं सुहृद्वध इत्येतौ सुरापानसमौ ॥ ३६.२ ॥

ब्राह्मणस्य भूम्यपहरणं निक्षेपापहरणं सुवर्णस्तेयसमम् ॥ ३६.३ ॥

पितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमम् ॥ ३६.४ ॥

पितृष्वसृमातृष्वसृस्वसृगमनं च ॥ ३६.५ ॥

श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनं च ॥ ३६.६ ॥

स्वसुः सख्याः सगोत्राय उत्तमवर्णायाः कुमार्या अन्त्यजाया रजस्वलायाः शरणागतायाः *प्रव्रजिताया निक्षिप्तायाश्च [प्रव्रजितायाः नि] ॥ ३६.७ ॥

अनुपातकिनस्त्वेते महापातकिनो यथा ।
अश्वमेधेन शुध्यन्ति तीर्थानुसरणेन वा ॥ ३६.८ ॥