०३५

ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनमिति महापातकानि ॥ ३५.१ ॥

तत्संयोगश्च ॥ ३५.२ ॥

संवत्सरेण पतति पतितेन सहाचरन् ॥ ३५.३ ॥

एकयानभोजनाशनशयनैः ॥ ३५.४ ॥

यौनस्रौवमुख्यैः संबन्धैस्तु सद्य एव ॥ ३५.५ ॥

अश्वमेधेन शुद्ध्येयुर्महापातकिनस्त्विमे ।
पृथिव्यां सर्वतीर्थानां तथानुसरणेन च ॥ ३५.६ ॥