०३४

मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि ॥ ३४.१ ॥

अतिपातकिनस्त्वेते प्रविशेयुर्हुताशनम् ।
न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथंचन ॥ ३४.२ ॥