अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति ॥ ३३.१ ॥
परिग्रहप्रसङ्गाद्विशेषेण गृहाश्रमिणः ॥ ३३.२ ॥
तेनायमाक्रान्तोऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्तते ॥ ३३.३ ॥
जातिभ्रंशकरेषु संकरीकरणेष्V अपात्रीकरणेषु ॥ ३३.४ ॥
मलावहेषु प्रकीर्णकेषु च ॥ ३३.५ ॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं ज्ययेत् ॥ ३३.६ ॥