राजर्त्विक्श्रोत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वशुरज्येष्ठभ्रातृसंबन्धिनश्चाचार्यवत् ॥ ३२.१ ॥
पत्न्य एतेषां सवर्णाः ॥ ३२.२ ॥
मातृष्वसा पितृष्वसा ज्येष्ठा स्वसा च ॥ ३२.३ ॥
श्वशुरपितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थानमेवाभिवादनम् ॥ ३२.४ ॥
हीनवर्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपस्पर्शनम् ॥ ३२.५ ॥
गुरुपत्नीनां गोत्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनादीनि न कुर्यात् ॥ ३२.६ ॥
असंस्तुतापि परपत्नी भगिनीति वाच्या पुत्रीति मातेति वा ॥ ३२.७ ॥
न च गुरूणां त्वमिति ब्रूयात् ॥ ३२.८ ॥
तदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नीयात् ॥ ३२.९ ॥
न च गुरुणा सह विगृह्य कथाः कुर्यात् ॥ ३२.१० ॥
न चैवास्य परीवादम् ॥ ३२.११ ॥
न चानभिप्रेतम् ॥ ३२.१२ ॥
गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ ३२.१३ ॥
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ ३२.१४ ॥
विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ ३२.१५ ॥
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मानस्थानानि गरीयो यद्यदुत्तरम् ॥ ३२.१६ ॥
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ ३२.१७ ॥
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ ३२.१८ ॥
[Eन्दोf ড়र्त्१]