त्रयः पुरुषस्यातिगुरवो भवन्ति ॥ ३१.१ ॥
माता पिता आचार्यश्च ॥ ३१.२ ॥
तेषां नित्यमेव शुश्रूषुणा भवितव्यम् ॥ ३१.३ ॥
यत्ते ब्रूयुस्तत्कुर्यात् ॥ ३१.४ ॥
तेषां प्रियहितमाचरेत् ॥ ३१.५ ॥
न तैरननुज्ञातः किंचिदपि कुर्यात् ॥ ३१.६ ॥
एत एव त्रयो वेदा एत एव त्रयः सुराः ।
एत एव त्रयो लोका एत एव त्रयोऽग्नयः ॥ ३१.७ ॥
पिता गार्हप्त्योऽग्निः दक्षिनाग्निर्माता गुरुराहवनीयः ॥ ३१.८ ॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृत्यास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ ३१.९ ॥
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्वेव ब्रह्मलोकं समाश्नुते ॥ ३१.१० ॥