श्रावण्यां प्रौष्ठपद्यां वा छन्दांस्युपाकृत्यार्धपञ्चमान्मासानधीयीत ॥ ३०.१ ॥
ततस्तेषामुत्सर्गं बहिः कुर्यात् ॥ ३०.२ ॥
उत्सर्जनोपाकर्मणोर्मध्ये वेदाङ्गाध्ययनं कुर्यात् ॥ ३०.३ ॥
नाधीयीताहोरात्रं चतुर्दश्यष्टमीषु च ॥ ३०.४ ॥
न+ऋत्वन्तरग्रहसूतके ॥ ३०.५ ॥
नेन्द्रप्रयाणे ॥ ३०.६ ॥
न वाति चण्डपवने ॥ ३०.७ ॥
नाकालवर्षविद्युत्स्तनितेषु ॥ ३०.८ ॥
न भूकंपोल्कापातदिग्दाहेषु ॥ ३०.९ ॥
नान्तःशवे ग्रामे ॥ ३०.१० ॥
न शास्त्रसंपाते ॥ ३०.११ ॥
न श्वसृगालगर्दभनिर्ह्रादेषु ॥ ३०.१२ ॥
न वादित्रशब्दे ॥ ३०.१३ ॥
न शूद्रपतितयोः समीपे ॥ ३०.१४ ॥
न देवतायतनश्मशानचतुष्पथरथ्यासु ॥ ३०.१५ ॥
नोदकान्तः ॥ ३०.१६ ॥
न पीठोपहितपादः ॥ ३०.१७ ॥
न हस्त्यश्वोष्ट्रनौगोयानेषु ॥ ३०.१८ ॥
न वान्तः ॥ ३०.१९ ॥
न विरिक्तः ॥ ३०.२० ॥
नाजीर्णी ॥ ३०.२१ ॥
न पञ्चनखान्तरागमने ॥ ३०.२२ ॥
न राजश्रोत्रियगोब्राह्मणव्यसने ॥ ३०.२३ ॥
नोपाकर्मणि ॥ ३०.२४ ॥
नोत्सर्गे ॥ ३०.२५ ॥
न सामध्वनावृग्यजुषी ॥ ३०.२६ ॥
नापररात्रमधीत्य शयीत ॥ ३०.२७ ॥
अभियुक्तोऽप्यनध्यायेष्वध्ययनं परिहरेत् ॥ ३०.२८ ॥
यस्मादनध्यायाधीतं नेहामुत्र फलप्रदम् ॥ ३०.२९ ॥
तदध्ययनेनायुषः क्षयो गुरुशिष्ययोश्च ॥ ३०.३० ॥
तस्मादनध्यायवर्जं गुरुणा ब्रह्मलोककामेन विद्या सत्शिष्यक्षेत्रेषु वप्तव्या ॥ ३०.३१ ॥
शिष्येण ब्रह्मारम्भावसानयोर्गुरोः पादोपसंग्रहणं कार्यम् ॥ ३०.३२ ॥
प्रणवश्च व्याहर्तव्यः ॥ ३०.३३ ॥
तत्र च यदृचोऽधीते तेनास्याज्येन पितॄणां तृप्तिर्भवति ॥ ३०.३४ ॥
यद्यजूंषि तेन मधुना ॥ ३०.३५ ॥
यत्सामानि तेन पयसा ॥ ३०.३६ ॥
यदाथर्वणं तेन मांसेन ॥ ३०.३७ ॥
यत्पुराणेतिहासवेदाङ्गधर्मशास्त्राण्यधीते तेनास्यान्नेन ॥ ३०.३८ ॥
यश्च विद्यामासाद्यास्मिन् लोके तया जीवेत्, न सा तस्य परलोके फलप्रदा भवेत् ॥ ३०.३९ ॥
यश्च विद्यया यशः परेषां हन्ति ॥ ३०.४० ॥
अननुज्ञातश्चान्यस्मादधीयानान्न विद्यामादद्यात् ॥ ३०.४१ ॥
तदादानमस्य ब्रह्मस्तेयं नरकाय भवति ॥ ३०.४२ ॥
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं न तं द्रुह्येत्कदाचन ॥ ३०.४३ ॥
उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ ३०.४४ ॥
कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
संभूतिं तस्य तां विद्याद्यद्योनाविह जायते ॥ ३०.४५ ॥
आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ ३०.४६ ॥
य आवृणोत्यवितथेन कर्णावदुःखं कुर्वन्नमृतं संप्रयच्छन् ।
तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ ३०.४७ ॥