यस्तूपनीय व्रतादेशं कृत्वा वेदमध्यापयेत्तमाचार्यं विद्यात् ॥ २९.१ ॥
यस्त्वेनं मूल्येनाध्यापयेत्तमुपाध्यायमेकदेशं वा ॥ २९.२ ॥
यो यस्य यज्ञ्नकर्माणि कुर्यात्तमृत्विजं विद्यात् ॥ २९.३ ॥
नापरीक्षितं योजयेत् ॥ २९.४ ॥
नाध्यापयेत् ॥ २९.५ ॥
नोपनयेत् ॥ २९.६ ॥
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ २९.७ ॥
धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥ २९.८ ॥
विद्या ह वै ब्रह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्ति ।
असूयकायानृजवेऽयताय न मां ब्रूया अवीर्यवती तथा स्याम् ॥ २९.९ ॥
यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् ।
यस्ते न द्रुह्येत्कतमच्च नाह तस्मै मां ब्रूया निधिपाय ब्रह्मन् ॥ २९.१० ॥