०२८

अथ ब्रह्मचरिणां गुरुकुलवासः ॥ २८.१ ॥

संध्याद्वयोपासनम् ॥ २८.२ ॥

पूर्वां संध्यां जपेत्तिष्ठन् पश्चिमामासीनः ॥ २८.३ ॥

कालद्वयमभिषेकाग्निकर्मकरणम् ॥ २८.४ ॥

अप्सु दण्डवन्मज्जनम् ॥ २८.५ ॥

आहूताध्ययनम् ॥ २८.६ ॥

गुरोः प्रियहिताचरणम् ॥ २८.७ ॥

मेखलादण्डाजिनोपवीतधारणम् ॥ २८.८ ॥

गुरुकुलवर्जं गुणवत्सु भैक्ष्यचरणम् ॥ २८.९ ॥

गुर्वनुज्ञातं भैक्ष्याभ्यवहरणम् ॥ २८.१० ॥

श्राद्धकृतलवणशुक्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्टप्राणिहिंसाश्लीलपरिवर्जनम् ॥ २८.११ ॥

अधः शय्या ॥ २८.१२ ॥

गुरोः पूर्वोत्थानं चरमं संवेशनम् ॥ २८.१३ ॥

कृतसंध्योपासनश्च गुर्वभिवादनं कुर्यात् ॥ २८.१४ ॥

तस्य च व्यत्यस्तकरः पादावुपस्पृशेत् ॥ २८.१५ ॥

दक्षिणं दक्षिणेनेतरमितरेण ॥ २८.१६ ॥

स्वं च नामास्याभिवादनान्ते भोःशब्दान्तं निवेदयेत् ॥ २८.१७ ॥

तिष्ठन्नासीनः शयानो भुञ्जानः पराङ्मुखश्च नास्याभिभाषणं कुर्यात् ॥ २८.१८ ॥

आसीनस्य स्थितः कुर्यादभिगच्छंस्तु गच्छतः । आगच्छतः प्रत्युद्गम्य पश्चाद्धावंस्तु धावतः ॥ २८.१९ ॥

पराङ्मुखस्याभिमुखः ॥ २८.२० ॥

दूरस्थस्यान्तिकमुपेत्य ॥ २८.२१ ॥

शयानस्य प्रणम्य ॥ २८.२२ ॥

तस्य च चक्षुर्विषये न यथेष्टासनः स्यात् ॥ २८.२३ ॥

न चास्य केवलं नाम ब्रूयात् ॥ २८.२४ ॥

गतिचेष्टाभाषिताद्यं नास्यानुकुर्यात् ॥ २८.२५ ॥

यत्रास्य निन्दापरिवादौ स्यातां न तत्र तिष्ठेत् ॥ २८.२६ ॥

नास्यैकासनो भवेत् ॥ २८.२७ ॥

ऋते शिलाफलकनौयानेभ्यः ॥ २८.२८ ॥

गुरोर्गुरौ संनिहिते गुरुवद्वर्तेत ॥ २८.२९ ॥

अनिर्दिष्टश्च गुरुणा स्वान् गुरुन्नाभिवादयेत् ॥ २८.३० ॥

बाले समानवयसि वाध्यापके गुरुपुत्रे गुरुवद्वर्तेत ॥ २८.३१ ॥

नास्य पादौ प्रक्षालयेत् ॥ २८.३२ ॥

नोच्छिष्टमश्नीयात् ॥ २८.३३ ॥

एवं वेदं वेदौ वेदान् वा स्वीकुर्यात् ॥ २८.३४ ॥

ततो वेदाङ्गानि ॥ २८.३५ ॥

यस्त्वनधीतवेदोऽन्यत्र श्रमं कुर्यादसौ ससंतानः शूद्रत्वमेति ॥ २८.३६ ॥

मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम् ॥ २८.३७ ॥

तत्रास्य माता सावित्री भवति पिता त्व्*आचार्यः [आचार्थः] ॥ २८.३८ ॥

एतेनैव तेषां द्विजत्वम् ॥ २८.३९ ॥

प्राङ्मौञ्जीबन्धनाद्द्विजः शूद्रसमो भवति ॥ २८.४० ॥

ब्रह्मचारिणा मुण्डेन जटिलेन वा भाव्यम् ॥ २८.४१ ॥

वेदस्वीकरणादूर्ध्वं गुर्वनुज्ञातस्तस्मै वरं दत्त्वा स्नायात् ॥ २८.४२ ॥

ततो गुरुकुल एव वा जन्मनः शेषं नयेत् ॥ २८.४३ ॥

तत्राचार्ये प्रेते गुरुवत्गुरुपुत्रे वर्तेत ॥ २८.४४ ॥

गुरुदारेषु सवर्णेषु वा ॥ २८.४५ ॥

तदभावेऽग्निशुश्रूषुर्नैष्ठिको ब्रह्मचारी स्यात् ॥ २८.४६ ॥

एवं चरति यो विप्रो ब्रह्मचर्यमतन्द्रितः ।
स गच्छत्युत्तमं स्थानं न चेहाजायते पुनः ॥ २८.४७ ॥

कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मचारिणः ॥ २८.४८ ॥

एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥ २८.४९ ॥

तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेककालिकम् ।
उपस्पृशंस्त्रिषवणमब्देन स विशुध्यति ॥ २८.५० ॥

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।
स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ २८.५१ ॥

अकृत्वा भैक्षचरणमसमिद्ध्य च पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ २८.५२ ॥

तं चेदभ्युदियात्सूर्यः शयानं कामकारतः ।
निम्लोचेद्वाप्य्+अविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ २८.५३ ॥