०२७

गर्भस्य स्पष्टताज्ञाने निषेककर्म ॥ २७.१ ॥

स्पन्दनात्पुरा पुंसवनम् ॥ २७.२ ॥

*षष्ठेऽष्टमे वा मासि सीमन्तोन्नयनम् [पष्ठे] ॥ २७.३ ॥

जाते च दारके जातकर्म ॥ २७.४ ॥

आशौचव्यपगमे नामधेयम् ॥ २७.५ ॥

मङ्गल्यं ब्राहमणस्य ॥ २७.६ ॥

बलवत्क्षत्रियस्य ॥ २७.७ ॥

धनोपेतं वैश्यस्य ॥ २७.८ ॥

जुगुप्सितं शूद्रस्य ॥ २७.९ ॥

चतुर्थे मास्यादित्यदर्शनम् ॥ २७.१० ॥

षष्ठेऽन्नप्राशनम् ॥ २७.११ ॥

तृतीयेऽब्दे चूडाकरणम् ॥ २७.१२ ॥

एता एव क्रियाः स्त्रीणाममन्त्रकाः ॥ २७.१३ ॥

तासां समन्त्रको विवाहः ॥ २७.१४ ॥

गर्भाष्टमेऽब्दे ब्राह्मणस्योपनयनम् ॥ २७.१५ ॥

गर्भैकादशे राज्ञः ॥ २७.१६ ॥

गर्भद्वादशे विशः ॥ २७.१७ ॥

तेषां मुञ्जज्याबल्बजमय्यो मौञ्ज्यः ॥ २७.१८ ॥

कार्पासशाणाविकान्युपवीतानि वासांसि च ॥ २७.१९ ॥

मार्गवैयाघ्रबास्तानि चर्माणि ॥ २७.२० ॥

पालाशखादिरौदुम्बरा दण्डाः ॥ २७.२१ ॥

केशान्तललाटनासादेशतुल्याः ॥ २७.२२ ॥

सर्व एव वा ॥ २७.२३ ॥

अकुटिलाः सत्वचश्च ॥ २७.२४ ॥

भवदाद्यं भवन्मध्यं भवदन्तं च भैक्ष्यचरनम् ॥ २७.२५ ॥

आ षोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।
आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥ २७.२६ ॥

अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ २७.२७ ॥

यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला ।
यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥ २७.२८ ॥

मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २७.२९ ॥