अथ स्त्रीणां धर्माः ॥ २५.१ ॥
भर्तुः समानव्रतचारित्वम् ॥ २५.२ ॥
श्वश्रूश्वशुरगुरुदेवतातिथिपूजनम् ॥ २५.३ ॥
सुसंस्कृतोपस्करता ॥ २५.४ ॥
अमुक्तहस्तता ॥ २५.५ ॥
सुगुप्तभाण्डता ॥ २५.६ ॥
मूलक्रियास्वनभिरतिः ॥ २५.७ ॥
मङ्गलाचारतत्परता ॥ २५.८ ॥
भर्तरि प्रवसितेऽप्रतिकर्मक्रिया ॥ २५.९ ॥
परगृहेष्वनभिगमनम् ॥ २५.१० ॥
द्वारदेशगवाक्षेष्वनवस्थानम् ॥ २५.११ ॥
सर्वकर्मस्वस्वतन्त्रता ॥ २५.१२ ॥
बाल्ययौवनवार्धकेष्वपि पितृभर्तृपुत्राधीनता ॥ २५.१३ ॥
मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा ॥ २५.१४ ॥
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ।
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥ २५.१५ ॥
पत्यौ जीवति या योषिदुपवासव्रतं चरेत् ।
आयुः सा हरते भर्तुर्नरकं चैव गच्छति ॥ २५.१६ ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ २५.१७ ॥