अथ ब्राह्मणस्य वर्णानुक्रमेण चतस्रो भार्या भवन्ति ॥ २४.१ ॥
तिस्रः क्षत्रियस्य ॥ २४.२ ॥
द्वे वैश्यस्य ॥ २४.३ ॥
एका शूद्रस्य ॥ २४.४ ॥
तासां सवर्णावेदने पाणिर्ग्राह्यः ॥ २४.५ ॥
असवर्णावेदने शरः क्षत्रियकन्यया ॥ २४.६ ॥
प्रतोदो वैश्यकन्यया ॥ २४.७ ॥
वसनदशान्तः शूद्रकन्यया ॥ २४.८ ॥
न सगोत्रां न समानार्षप्रवरां भार्यां विन्देत ॥ २४.९ ॥
मातृतस्त्वा पञ्चमात्पुरुषात्*पितृतश्चा सप्तमात्[पितृताश्] ॥ २४.१० ॥
नाकुलीनाम् ॥ २४.११ ॥
न च व्याधिताम् ॥ २४.१२ ॥
नाधिकाङ्गीम् ॥ २४.१३ ॥
न हीनाङ्गीम् ॥ २४.१४ ॥
नातिकपिलाम् ॥ २४.१५ ॥
न वाचाटाम् ॥ २४.१६ ॥
अथाष्टौ विवाहा भवन्ति ॥ २४.१७ ॥
ब्राह्मो दैव आर्षः प्राजापत्यो गान्धर्व आसुरो राक्षसः पैशाचश्चेति ॥ २४.१८ ॥
आहूय गुणवते कन्यादानं ब्राह्मः ॥ २४.१९ ॥
यज्ञस्थर्त्विजे दैवः ॥ २४.२० ॥
गोमिथुनग्रहणेनार्षः ॥ २४.२१ ॥
प्रार्थितप्रदानेन प्राजापत्यः ॥ २४.२२ ॥
द्वयोः सकामयोर्मातापितृरहितो योगो गान्धर्वः ॥ २४.२३ ॥
क्रयेणासुरः ॥ २४.२४ ॥
युद्धहरणेन राक्षसः ॥ २४.२५ ॥
सुप्तप्रमत्ताभिगमनात्*पैशाचः [पैशचः] ॥ २४.२६ ॥
एतेष्वाद्याश्चत्वारो धर्म्याः ॥ २४.२७ ॥
गान्धर्वोऽपि राजन्यानाम् ॥ २४.२८ ॥
ब्राह्मीपुत्रः पुरुषानेकविंशतिं पुनीते ॥ २४.२९ ॥
दैवीपुत्रश्चतुर्दश ॥ २४.३० ॥
आर्षीपुत्रश्च सप्त ॥ २४.३१ ॥
प्राजापत्यश्चतुरः ॥ २४.३२ ॥
ब्राह्मेण विवाहेन कन्यां ददत्ब्रह्मलोकं गमयति ॥ २४.३३ ॥
दैवेन स्वर्गम् ॥ २४.३४ ॥
आर्षेण वैष्णवम् ॥ २४.३५ ॥
प्राजापत्येन देवलोकम् ॥ २४.३६ ॥
गान्धर्वेण गन्धर्वलोकं गच्छति ॥ २४.३७ ॥
पिता पितामहो भ्राता सकुल्यो मातामहो माता चेति कन्याप्रदाः ॥ २४.३८ ॥
पूर्वाभावे प्रकृतिस्थः परः पर इति ॥ २४.३९ ॥
ऋतुत्रयमुपास्यैव कन्या कुर्यात्स्वयं वरम् ।
ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा ॥ २४.४० ॥
पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया हरंस्तां न विदुष्यति ॥ २४.४१ ॥