०२३

शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्तोपहतम् ॥ २३.१ ॥

अत्यन्तोपहतं सर्वं लोहभाण्डमग्नौ प्रक्षिप्तं शुध्येत् ॥ २३.२ ॥

मणिमयमश्ममयमब्जं च सप्तरात्रं महीनिखननेन ॥ २३.३ ॥

शृङ्गदन्तास्थिमयं तक्षणेन ॥ २३.४ ॥

दारवं मृन्मयं च जह्यात् ॥ २३.५ ॥

अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं सद्विरज्यते तच्छिन्द्यात् ॥ २३.६ ॥

सौवर्णराजताब्जमणिमयानां निर्लेपानामद्भिः शुद्धिः ॥ २३.७ ॥

अश्ममयानां चमसानां ग्रहाणां च ॥ २३.८ ॥

चरुस्रुक्स्रुवाणामुष्णेनाम्भसा ॥ २३.९ ॥

यज्ञकर्मणि यज्ञपात्राणां पाणिना संमार्जनेन ॥ २३.१० ॥

स्फ्यशूर्पशकटमुसलोलूखलानां प्रोक्षणेन ॥ २३.११ ॥

शयनयानासनानां च ॥ २३.१२ ॥

बहूनां च ॥ २३.१३ ॥

धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससां च ॥ २३.१४ ॥

शाकमूलफलपुष्पाणां च ॥ २३.१५ ॥

तृणकाष्ठशुष्कपलाशानां च ॥ २३.१६ ॥

एतेषां प्रक्षालनेन ॥ २३.१७ ॥

अल्पानां च ॥ २३.१८ ॥

ऊषैः कौशेयाविकयोः ॥ २३.१९ ॥

अरिष्टकैः कुतपानाम् ॥ २३.२० ॥

श्रीफलैरंशुपट्टानाम् ॥ २३.२१ ॥

गौरसर्षपैः क्षौमाणाम् ॥ २३.२२ ॥

शृङ्गास्थिदन्तमयानां च ॥ २३.२३ ॥

पद्माक्षैर्मृगलोमिकानाम् ॥ २३.२४ ॥

ताम्ररीतित्रपुसीसमयानामम्लोदकेन ॥ २३.२५ ॥

भस्मना कांस्यलोहयोः ॥ २३.२६ ॥

तक्षणेन दारवाणाम् ॥ २३.२७ ॥

गोवालैः फलसंभवानाम् ॥ २३.२८ ॥

प्रोक्षणेन संहतानाम् ॥ २३.२९ ॥

उत्पवनेन द्रवाणाम् ॥ २३.३० ॥

गुडादीनामिक्षुविकाराणां प्रभूतानां गृहनिहितानां वार्यग्निदानेन ॥ २३.३१ ॥

सर्वलवणानां च ॥ २३.३२ ॥

पुनः पाकेन मृन्मयानाम् ॥ २३.३३ ॥

द्रव्यवत्कृतशौचानां देवतार्चानां भूयः प्रतिष्ठापनेन ॥ २३.३४ ॥

असिद्धस्यान्नस्य यन्मात्रमुपहतं तन्मात्रं परित्यज्य शेषस्य कण्डनप्रक्षालने कुर्यात् ॥ २३.३५ ॥

द्रोणाभ्यधिकं सिद्धमन्नमुपहतं न दुष्यति ॥ २३.३६ ॥

तस्योपहतमात्रमपास्य गायत्र्याभिमन्त्रितं सुवर्णाम्भः प्रक्षिपेत्बस्तस्य च प्रदर्शयेदग्नेश्च ॥ २३.३७ ॥

पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् ।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥ २३.३८ ॥

यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।
तावन्मृद्वारि देयं स्यात्सर्वासु द्रव्यशुद्धिषु ॥ २३.३९ ॥

अजाश्वं मुखतो मेध्यं न गौर्न नरजा मलाः ।
पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ २३.४० ॥

रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ २३.४१ ॥

प्राणिनामथ सर्वेषां मृद्भिरद्भिश्च कारयेत् ।
अत्यन्तोपहतानां च शौचं नित्यमतन्द्रितम् ॥ २३.४२ ॥

भूमिष्ठमुदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत् ।
अव्याप्तं चेदमेध्येन तद्वदेव शिलागतम् ॥ २३.४३ ॥

मृतपञ्चनखात्कूपादत्यन्तोपहतात्तथा ।
अपः समुद्धरेत्सर्वाः शेषं वस्त्रेण शोधयेत् ॥ २३.४४ ॥

वह्निप्रज्वालनं कुर्यात्कूपे पक्वेष्टकाचिते ।
पञ्चगव्यं न्यसेत्पश्चान्नवतोयसमुद्भवे ॥ २३.४५ ॥

जलाशयेष्वथाल्पेषु स्थावरेषु वसुंधरे ।
कूपवत्कथिता शुद्धिर्महत्सु च न दूषणम् ॥ २३.४६ ॥

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ २३.४७ ॥

नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् ।
ब्राहमणान्तरितं भैक्ष्यमाकराः सर्व एव च ॥ २३.४८ ॥

नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने ।
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ २३.४९ ॥

श्वभिर्हतस्य यन्मांसं शुचि तत्परिकीर्तितम् ।
क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥ २३.५० ॥

ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत् ।
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥ २३.५१ ॥

मक्षिका विप्रुषश्छाया गौर्गजाश्वमरीचयः ।
रजो भूर्वायुरग्निश्च मार्जारश्च सदा शुचिः ॥ २३.५२ ॥

नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गे न यान्ति याः ।
न श्मश्रूणि गतान्यास्यं न दन्तान्तरवेष्टितम् ॥ २३.५३ ॥

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भौमिकैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ २३.५४ ॥

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् ॥ २३.५५ ॥

मार्जनोपाञ्जनैर्वेश्म प्रोक्षणेनैव पुस्तकम् ।
संमार्जनेनाञ्जनेन सेकेनोल्लेखनेन च ॥ २३.५६ ॥

दाहेन च भुवः शुद्धिर्वासेनाप्यथ वा गवाम् ।
गावः पवित्रमङ्गल्यं गोषु लोकाः प्रतिष्ठिताः ॥ २३.५७ ॥

गावो वितन्वते य्ज्ञं गावः सर्वाघसूदनाः ।
गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना ॥ २३.५८ ॥

षडङ्गमेतत्परमं मङ्गल्यं परमं गवाम् ।
शृङ्गोदकं गवां पुण्यं सर्वाघविनिषूदनम् ॥ २३.५९ ॥

गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ।
गवां ग्रासप्रदानेन स्वर्गलोके महीयते ॥ २३.६० ॥

गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथासां रजसि प्रवृद्धा ।
लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ॥ २३.६१ ॥