ब्राह्मणस्य सपिण्डानां जननमरणयोर्दशाहमाशौचम् ॥ २२.१ ॥
द्वादशाहं राजन्यस्य ॥ २२.२ ॥
पञ्चदशाहं वैश्यस्य ॥ २२.३ ॥
मासं शूद्रस्य ॥ २२.४ ॥
सपिण्डता च पुरुषे सप्तमे विनिवर्तते ॥ २२.५ ॥
आशौचे होमदानप्रतिग्रहस्वाध्याया निवर्तन्ते ॥ २२.६ ॥
नाशौचे कस्यचिदन्नमश्नीयात् ॥ २२.७ ॥
ब्राह्मणादीनामशौचे यः सकृदेवान्नमत्ति तस्य तावदाशौचं यावत्तेषाम् ॥ २२.८ ॥
आशौशापगमे प्रायश्चित्तं कुर्यात् ॥ २२.९ ॥
सवर्णस्याशौचे द्विजो भुक्त्वा स्रवन्तीमासाद्य तन्निमग्नस्त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् ॥ २२.१० ॥
क्षत्रियाशौचे ब्राह्मणस्त्वेतदेवोपोषितः कृत्वा शुध्यति ॥ २२.११ ॥
वैश्याशौचे राजन्यश्च ॥ २२.१२ ॥
वैश्याशौचे ब्राह्मणस्त्रिरात्रोपोषितश्च ॥ २२.१३ ॥
ब्राह्मणाशौचे राजन्यः क्षत्रियाशौचे वैश्यश्च स्रवन्तीमासाद्य गायत्रीशतपञ्चकं जपेत् ॥ २२.१४ ॥
वैश्यश्च ब्राह्मणाशौचे गायत्र्यष्टशतं जपेत् ॥ २२.१५ ॥
शूद्राशौचे द्विजो भुक्त्वा प्राजापत्यं चरेत् ॥ २२.१६ ॥
शूद्रश्च द्विजाशौचे स्नानमाचरेत् ॥ २२.१७ ॥
शूद्रः शूद्राशौचे स्नातः पञ्चगव्यं पिबेत् ॥ २२.१८ ॥
पत्नीनां दासानामानुलोम्येन स्वामिनस्तुल्यमाशौचम् ॥ २२.१९ ॥
मृते स्वामिन्यात्मीयम् ॥ २२.२० ॥
हीनवर्णानामधिकवर्णेषु सपिण्डेषु तदशौचव्यपगमे शुद्धिः ॥ २२.२१ ॥
ब्राह्मणस्य क्षत्रिविट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्रैकरात्रैः ॥ २२.२२ ॥
क्षत्रियस्य विट्शूद्रयोः षड्रात्रत्रिरात्राभ्याम् ॥ २२.२३ ॥
वैश्यस्य शूद्रेषु षड्रात्रेण ॥ २२.२४ ॥
मासतुल्यैरहोरात्रैर्गर्भस्रावे ॥ २२.२५ ॥
जातमृते मृतजाते वा कुलस्य सद्यः शौचम् ॥ २२.२६ ॥
अदन्तजाते बाले प्रेते सद्य एव ॥ २२.२७ ॥
नास्याग्निसंस्कारो नोदकक्रिया ॥ २२.२८ ॥
दन्तजाते त्वकृतचूडे त्वहोरात्रेण ॥ २२.२९ ॥
कृतचूडे त्वसंस्कृते त्रिरात्रेण ॥ २२.३० ॥
ततः परं यथोक्तकालेन ॥ २२.३१ ॥
स्त्रीणां विवाहः संस्कारः ॥ २२.३२ ॥
संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे ॥ २२.३३ ॥
तत्प्रसवमरणे चेत्पितृगृहे स्यातां , तदा एकरात्रं त्रिरात्रं च ॥ २२.३४ ॥
जननाशौचमध्ये यद्यपरं जननाशौचं स्यात्, तदा पूर्वाशौचव्यपगमे शुद्धिः ॥ २२.३५ ॥
रात्रिशेषे दिनद्वयेन ॥ २२.३६ ॥
प्रभाते दिनत्रयेण ॥ २२.३७ ॥
मरणाशौचमध्ये ज्ञातिमरणेऽप्येवम् ॥ २२.३८ ॥
श्रुत्वा देशान्तरस्थो जननमरणे आशौचशेषेण शुध्येत् ॥ २२.३९ ॥
व्यतीतेऽशौचे संवत्सरान्तस्त्वेकरात्रेण ॥ २२.४० ॥
ततः परं स्नानेन ॥ २२.४१ ॥
आचार्ये मातामहे च व्यतीते त्रिरात्रेण ॥ २२.४२ ॥
अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥ २२.४३ ॥
आचार्यपत्नीपुत्रोपाध्यायमातुलश्वशुरश्वशुर्यसहाध्यायिशिष्येष्वतीतेष्वेकरात्रेण ॥ २२.४४ ॥
स्वदेशराजनि च ॥ २२.४५ ॥
असपिण्डे स्ववेश्मनि मृते च ॥ २२.४६ ॥
भृग्वग्न्यनाशकाम्बुसंग्रामविद्युन्नृपहतानां नाशौचम् ॥ २२.४७ ॥
न राज्ञां रजकर्मणि ॥ २२.४८ ॥
न व्रतिनां व्रते ॥ २२.४९ ॥
न सत्रिणां सत्रे ॥ २२.५० ॥
न कारूणां कारुकर्मणि ॥ २२.५१ ॥
न राजाज्ञाकारिणां तदिच्छया ॥ २२.५२ ॥
न देवप्रतिष्ठाविवाहयोः पूर्वसंभृतयोः ॥ २२.५३ ॥
न देशविभ्रमे ॥ २२.५४ ॥
आपद्यपि च कष्टायाम् ॥ २२.५५ ॥
आत्मत्यागिनः पतिताश्च नाशौचोदकभाजः ॥ २२.५६ ॥
पतितस्य दासी मृतेऽह्नि पदा अपां घटमपवर्जयेत् ॥ २२.५७ ॥
उद्बन्धनमृतस्य यः पाशं छिन्द्यात्स तप्तकृच्छ्रेण शुध्यति ॥ २२.५८ ॥
आत्मत्यागिनां संस्कर्ता च ॥ २२.५९ ॥
तदश्रुपातकारी च ॥ २२.६० ॥
सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन ॥ २२.६१ ॥
अकृतेऽस्थिसंचये सचैलस्नानेन ॥ २२.६२ ॥
द्विजः शूद्रप्रेतानुगमनं कृत्वा स्रवन्तीमासाद्य तन्निमग्नः त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् ॥ २२.६३ ॥
द्विजप्रेतस्याष्टशतम् ॥ २२.६४ ॥
शूद्रः प्रेतानुगमनं कृत्वा स्नानमाचरेत् ॥ २२.६५ ॥
चिताधूमसेवने सर्वे वर्णाः स्नानमाचरेयुः ॥ २२.६६ ॥
मैथुने दुःस्वप्ने रुधिरोपगतकण्ठे वमनविरेकयोश्च ॥ २२.६७ ॥
श्मश्रुकर्मणि कृते च ॥ २२.६८ ॥
शवस्पृशं च स्पृष्ट्वा रजस्वलाचण्डालयूपांश्च ॥ २२.६९ ॥
भक्ष्यवर्जं पञ्चनखशवं तदस्थिस्नेहं च ॥ २२.७० ॥
सर्वेष्वेतेषु स्नानेषु वस्त्रं नाप्रक्षालितं बिभृयात् ॥ २२.७१ ॥
रजस्वला चतुर्थेऽह्नि स्नानाच्छुध्यति ॥ २२.७२ ॥
रजस्वला हीनवर्णां रजस्वलां स्पृष्ट्वा न तावदश्नीयात्यावन्न शुद्धा ॥ २२.७३ ॥
सवर्णामधिकवर्णां वा स्पृष्ट्वा सद्यः स्नात्वा शुध्यति ॥ २२.७४ ॥
क्षुत्वा सुप्त्वा भुक्त्वा भोजनाध्ययनेप्सुः पीत्वा स्नात्वा निष्ठीव्य वासः परिधाय रथ्यामाक्रम्य मूत्रपुरीषं कृत्वा पञ्चनखास्थ्यस्नेहं स्पृष्ट्वा चाचमेत् ॥ २२.७५ ॥
चण्डालम्लेच्छसंभाषणे च ॥ २२.७६ ॥
नाभेरधस्तात्प्रबाहुषु च कायिकैर्मलैः सुराभिर्मद्यैश्चोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्येत् ॥ २२.७७ ॥
अन्यत्रोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन ॥ २२.७८ ॥
वक्त्रोपहतस्त्वुपोष्य स्नात्वा पञ्चगव्येन ॥ २२.७९ ॥
दशनच्छदोपहतश्च ॥ २२.८० ॥
वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्नखाः ।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ २२.८१ ॥
गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजातिभिः ॥ २२.८२ ॥
माधूकमैक्षवं टाङ्कं कौलं खार्जूरपानसे ।
मृद्वीकारसमाध्वीके मैरेयं नारिकेलजम् ॥ २२.८३ ॥
अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य च ।
राजन्यश्चैव वैश्यश्च स्पृष्ट्वैतानि न दुष्यतः ॥ २२.८४ ॥
गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् ।
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ २२.८५ ॥
आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ २२.८६ ॥
आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ २२.८७ ॥
ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् ।
वायुः कर्मार्ककालौ च शुद्धिकर्तॄणि देहिनाम् ॥ २२.८८ ॥
सर्वेषामेव शौचानामन्नशौचं परं स्मृतम् ।
योऽन्ने शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः ॥ २२.८९ ॥
क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ २२.९० ॥
मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ २२.९१ ॥
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ २२.९२ ॥
एष शौचस्य ते प्रोक्तः शारीरस्य विनिर्णयः ।
नानाविधानां द्रव्याणां शुद्धेः शृणु विनिर्णयम् ॥ २२.९३ ॥