अथाशौचव्यपगमे सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तस्त्वेवंविधानेव ब्राह्मणान् यथाशक्ति उदङ्मुखान् गन्धमाल्यवस्त्रालंकारादिभिः पूजितान् भोजयेत् ॥ २१.१ ॥
एकवन्मन्त्रानूहेदेकोद्दिष्टे ॥ २१.२ ॥
उच्छिष्टसंनिधावेकमेव तन्नामगोत्राभ्यां पिण्डं निर्वपेत् ॥ २१.३ ॥
भुक्तवत्सु ब्राह्मणेषु दक्षिणयाभिपूजितेषु प्रेतनामगोत्राभ्यां दत्ताक्षय्योदकः चतुरङ्गुलपृथ्वीः तावदन्तराः तावदधःखाताः वितस्त्यायताः तिस्रः कर्षूः कुर्यात् ॥ २१.४ ॥
कर्षूसमीपे चाग्नित्रयमुपसमाधाय परिस्तीर्य तत्रैकैकस्मिनाहुतित्रयं जुहुयात् ॥ २१.५ ॥
सोमाय पितृमते स्वधा नमः ॥ २१.६ ॥
अग्नये कव्यवाहनाय स्वथा नमः ॥ २१.७ ॥
यमायाङ्गिरसे स्वधा नमः ॥ २१.८ ॥
स्थानत्रये च प्राग्वत्पिण्डनिर्वपणं कुर्यात् ॥ २१.९ ॥
अन्नदधिघृतमधुमांसैः कर्षूत्रयं पूरयित्वा एतत्त इति जपेत् ॥ २१.१० ॥
एवं मृताहे प्रतिमासं कुर्यात् ॥ २१.११ ॥
संवत्सरान्ते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहाय च ब्राह्मणान् देवपूर्वान् भोजयेत् ॥ २१.१२ ॥
अत्राग्नौकरणमावाहनं पाद्यं च कुर्यात् ॥ २१.१३ ॥
संसृजतु त्वा पृथिवी समानी च इति च प्रेतपाद्यपात्रे पितृपाद्यपात्रत्रये योजयेत् ॥ २१.१४ ॥
उच्छिष्टसंनिधौ पिण्डचतुष्टयं कुर्यात् ॥ २१.१५ ॥
ब्राह्मणांश्च स्वाचान्तान् दत्तदक्षिणांश्चानुव्रज्य विसर्जयेत् ॥ २१.१६ ॥
ततः प्रेतपिण्डं पाद्यपात्रोदकवत्पिण्डत्रये निदध्यात् ॥ २१.१७ ॥ कर्षूत्रयसंनिक्र्षेऽप्येवमेव ॥ २१.१८ ॥
सपिण्डीकरणं मासिकार्थवत्द्वादशाहं श्राद्धं कृत्वा त्रयोदशेऽह्नि वा कुर्यात् ॥ २१.१९ ॥
मन्त्रवर्जं हि शूद्राणां द्वादशेऽह्नि ॥ २१.२० ॥
संवत्सराभ्यन्तरे यद्यधिमासो भवेत्, तदा मासिकार्थे दिनमेकं वर्धयेत् ॥ २१.२१ ॥
सपिण्डीकरणं स्त्रीणां कार्यमेवं तथा भवेत् ।
यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम् ॥ २१.२२ ॥
अर्वाक्सपिण्डीकरणं यस्य संवत्सरात्कृतं ।
तस्याप्यन्नं सोदकुम्भं दद्याद्वर्षं द्विजन्मने ॥ २१.२३ ॥