यदुत्तरायणं तदहर्देवानाम् ॥ २०.१ ॥
दक्षिणायनं रात्रिः ॥ २०.२ ॥
संवत्सरोऽहोरात्रः ॥ २०.३ ॥
तत्त्रिंशता मासाः ॥ २०.४ ॥
मासा द्वादश वर्षम् ॥ २०.५ ॥
द्वादश वर्षशतानि दिव्यानि कलियुगम् ॥ २०.६ ॥
द्विगुणानि द्वापरम् ॥ २०.७ ॥
त्रिगुणानि त्रेता ॥ २०.८ ॥
चतुर्गुणानि कृतयुगम् ॥ २०.९ ॥
द्वादशवर्षसहस्राणि दिव्यानि चतुर्युगम् ॥ २०.१० ॥
चतुर्युगाणामेकसप्ततिर्मन्वन्तरम् ॥ २०.११ ॥
चतुर्युगसहस्रं च कल्पः ॥ २०.१२ ॥
स च पितामहस्याहः ॥ २०.१३ ॥
तावती चास्य रात्रिः ॥ २०.१४ ॥
एवंविधेनाहोरात्रेण मासवर्षगणनया सर्वस्यैव ब्रह्मणो वर्षशतमायुः ॥ २०.१५ ॥
ब्रह्मायुषा च परिच्छिन्नः पौरुषो दिवसः ॥ २०.१६ ॥
तस्यान्ते महाकल्पः ॥ २०.१७ ॥
तावत्येवास्य निशा ॥ २०.१८ ॥
पौरूषेयाणामहोरात्राणामतीतानां संख्यैव नास्ति ॥ २०.१९ ॥
न च भविष्याणाम् ॥ २०.२० ॥
अनाद्यन्तत्वात्कालस्य ॥ २०.२१ ॥
एवमस्मिन्निरालम्बे काले सततयायिनि ।
न तद्भूतं प्रपश्यामि स्थितिर्यस्य भवेद्ध्रुवा ॥ २०.२२ ॥
गङ्गायाः सिकता धारास्तथा वर्षति वासवे ।
शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥ २०.२३ ॥
चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः ।
सर्वलोकप्रधानाश्च मनवश्च चतुर्दश ॥ २०.२४ ॥
बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च ।
विनष्तानीह कालेन मनुजेष्वथ का कथा ॥ २०.२५ ॥
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः ।
देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः ॥ २०.२६ ॥
ये समर्था जगत्यस्मिन् सृष्टिसंहारकारणे ।
तेऽपि कालेन नीयन्ते कालो हि दुरतिक्रमः ॥ २०.२७ ॥
आक्रम्य सर्वः कालेन परलोकं च नीयते ।
कर्मपाशवशो जन्तुस्तत्र का परिदेवना ॥ २०.२८ ॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
अर्थे दुष्परिहार्येऽस्मिन्नास्ति लोके सहायता ॥ २०.२९ ॥
शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः ।
अतो न रोदितव्यं हि क्रिया कार्या स्वशक्तितः ॥ २०.३० ॥
सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः ।
बान्धवैस्तस्य किं कार्यं शोचद्भिरथ वा न वा ॥ २०.३१ ॥
बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति ।
अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ॥ २०.३२ ॥
अर्वाक्सपिण्दीकरणात्प्रेतो भवति यो मृतः ।
प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ॥ २०.३३ ॥
पितृलोकगतश्चान्नं श्राद्धे भुङ्क्ते स्वधासमम् ।
पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छत ॥ २०.३४ ॥
देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च ।
मानुष्ये च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः ॥ २०.३५ ॥
प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम् ।
तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥ २०.३६ ॥
एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः ।
नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव च ॥ २०.३७ ॥
दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान् ।
धर्ममेकं सहायार्थं वरयध्वं सदा नराः ॥ २०.३८ ॥
मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम् ।
जायावर्जं हि सर्वस्य याम्यः पन्था विरुध्यते ॥ २०.३९ ॥
धर्म एकोऽनुयात्येनं यत्र क्वचन गामिनम् ।
नन्वसारे नृलोकेऽस्मिन् धर्मं कुरुत मा चिरम् ॥ २०.४० ॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कृतं वास्य न वाकृतम् ॥ २०.४१ ॥
क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् ।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ २०.४२ ॥
न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते ।
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥ २०.४३ ॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
कुशाग्रेणापि संष्पृष्टः प्राप्तकालो न जीवति ॥ २०.४४ ॥
नौशधानि न मन्त्राश्च न होमा न पुनर्जपाः ।
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ॥ २०.४५ ॥
आगामिनमनर्थं हि प्रविधानशतैरपि ।
न निवारयितुं शक्तस्तत्र का परिदेवना ॥ २०.४६ ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ॥ २०.४७ ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि चाप्यथ ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २०.४८ ॥
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तह्ता देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २०.४९ ॥
गृह्णातीह यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः ।
गृह्णात्येवं नवं देही देहं कर्मनिबन्धनम् ॥ २०.५० ॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २०.५१ ॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ २०.५२ ॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हथ ॥ २०.५३ ॥