मृतं द्विजं न शूद्रेण निर्हारयेत् ॥ १९.१ ॥
न शूद्रं द्विजेन ॥ १९.२ ॥
पितरं मातरं च पुत्रा निर्हरेयुः ॥ १९.३ ॥
न द्विजं पितरमपि शूद्राः ॥ १९.४ ॥
ब्राह्मणमनाथं ये ब्राह्मणा निर्हरन्ति ते स्वर्गलोकभाजः ॥ १९.५ ॥
निर्हृत्य च बान्धवं प्रेतं संष्कृत्याप्रदक्षिणेन चितामभिगम्याप्सु सवाससो निमज्जनं कुर्युः ॥ १९.६ ॥
प्रेतस्योदकनिर्वपणं कृत्वैकं पिण्डं कुशेषु दद्युः ॥ १९.७ ॥
प्रिवर्तितवाससश्च निम्बपत्राणि विदश्य द्वार्यश्मनि पदन्यासं कृत्वा गृहं प्रविशेयुः ॥ १९.८ ॥
अक्षतांश्चाग्नौ क्षिपेयुः ॥ १९.९ ॥
चतुर्थे दिवसेऽस्थिसंचयनं कुर्युः ॥ १९.१० ॥
तेषां गङ्गाम्भसि प्रक्षेपः ॥ १९.११ ॥
यावत्संख्यमस्थि पुरुषस्य गङ्गाम्भसि तिष्ठति, तावद्वर्षसहस्राणि स्वर्गलोकमधितिष्ठति ॥ १९.१२ ॥
यावदाशौचं तावत्प्रेतस्योदकं पिण्डमेकं च दद्युः ॥ १९.१३ ॥
क्रीतलब्धाशनाश्च भवेयुः ॥ १९.१४ ॥
अमांसाशनाश्च ॥ १९.१५ ॥
स्थण्डिलशायिनः ॥ १९.१६ ॥
पृथक्शायिनश्च ॥ १९.१७ ॥
ग्रामान्निष्क्रम्याशौचान्ते कृतश्मश्रुकर्माणस्तिलकल्कैः सर्षपकल्कैर्वा स्नाताः परिवर्तितवाससो गृहं प्रविशेयुः ॥ १९.१८ ॥
तत्र शान्तिं कृत्वा ब्राह्मणानां च पूजनं कुर्युः ॥ १९.१९ ॥
देवाः परोक्षदेवाः, प्रत्यक्षदेवा ब्राह्माणाः ॥ १९.२० ॥
ब्राह्मणैर्लोका धार्यन्ते ॥ १९.२१ ॥
ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः ।
ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते क्वचित् ॥ १९.२२ ॥
यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ।
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥ १९.२३ ॥
दुःखान्वितानां मृतबान्धवानामाश्वासनं कुर्युरदीनसत्त्वाः ।
वाक्यैस्तु यैर्भूमि तवाभिधास्ये वाक्यान्यहं तानि मनोऽभिरामे ॥ १९.२४ ॥