०१८

ब्राह्मणस्य चतुर्षु वर्णेषु चेत्पुत्रा भवेयुः, ते पैतृकं रिक्थं दशधा विभजेयुः ॥ १८.१ ॥

तत्र ब्राह्मणीपुत्रश्चतुरोऽंशानादद्यात् ॥ १८.२ ॥

क्षत्रियापुत्रस्त्रीन् ॥ १८.३ ॥

द्वावंशौ वैश्यापुत्रः ॥ १८.४ ॥

शूद्रापुत्रस्त्वेकम् ॥ १८.५ ॥

अथ चेत्शूद्रवर्जं ब्राह्मणस्य पुत्रत्रयं भवेत्, तदा तद्धनं नवधा विभजेयुः ॥ १८.६ ॥

वर्नानुक्रमेण चतुस्त्रिद्विभागीकृतानंशानादद्युः ॥ १८.७ ॥

वैश्यवर्जमष्टधा कृतं चतुरस्त्रीनेकं चादद्युः ॥ १८.८ ॥

क्षत्रियवर्जं सप्तधा कृतं चतुरो द्वावेकं च ॥ १८.९ ॥

ब्राह्मणवर्जं षड्धा कृतं त्रीन् द्वावेकं च ॥ १८.१० ॥

क्षत्रियस्य क्षत्रियावैश्याशूद्रापुत्रेष्वयमेव विभागः ॥ १८.११ ॥

अथ ब्राह्मणस्य ब्राह्मणक्षत्रियौ पुत्रौ स्यातां, तदा सप्तधा कृताद्धनाद्ब्राह्मणश्चतुरोऽंशानादद्यात् ॥ १८.१२ ॥

त्रीन् राजन्यः ॥ १८.१३ ॥

अथ ब्राह्मणस्य ब्राह्मणवैश्यौ, तदा षड्धा विभक्तस्य चतुरोऽंशान् ब्राह्मणस्त्वादद्यात् ॥ १८.१४ ॥

द्वावंशौ वैश्यः ॥ १८.१५ ॥

अथ ब्राह्मणस्य ब्राह्मणशूद्रौ पुत्रौ स्यातां, तदा तद्धनं पञ्चधा विभजेयाताम् ॥ १८.१६ ॥

चतुरोऽंशान् ब्राह्मणस्त्वादद्यात् ॥ १८.१७ ॥

एकं शूद्रः ॥ १८.१८ ॥

अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियवैश्यौ पुत्रौ स्यातां, तदा तद्धनं पञ्चधा विभजेयाताम् ॥ १८.१९ ॥

त्रीनंशान् क्षत्रियस्त्वादद्यात् ॥ १८.२० ॥

द्वावंशौ वैश्यः ॥ १८.२१ ॥

अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियशूद्रौ पुत्रौ स्यातां, तदा तद्धनं चतुर्धा विभजेयाताम् ॥ १८.२२ ॥

त्रीनंशान् क्षत्रियस्त्वादद्यात् ॥ १८.२३ ॥

एकं शूद्रः ॥ १८.२४ ॥

अथ ब्राह्मणस्य क्षत्रियस्य वैश्यस्य वा वैश्यशूद्रौ पुत्रौ स्यातां, तदा तद्धनं त्रिधा विभजेयाताम् ॥ १८.२५ ॥

द्वावंशौ वैश्यस्त्वादद्यात् ॥ १८.२६ ॥

एकं शूद्रः ॥ १८.२७ ॥

अथैकपुत्रा ब्राह्मणस्य ब्राह्मणक्षत्रियवैश्याः सर्वहराः ॥ १८.२८ ॥

क्षत्रियस्य राजन्यवैश्यौ ॥ १८.२९ ॥

वैश्यस्य वैश्यः ॥ १८.३० ॥

शूद्रः शूद्रस्य ॥ १८.३१ ॥

द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्धहरः ॥ १८.३२ ॥

अपुत्ररिक्थस्य या गतिः, सात्रार्धस्य द्वितीयस्य ॥ १८.३३ ॥

मातरः पुत्रभागानुसारेण भागापहारिण्यः ॥ १८.३४ ॥

अनूढाश्च दुहितरः ॥ १८.३५ ॥

समानवर्णाः पुत्राः समानंशानादद्युः ॥ १८.३६ ॥

ज्येष्ठाय श्रेष्ठमुद्धारं दद्युः ॥ १८.३७ ॥

यदि द्वौ ब्राह्मणीपुत्रौ स्यातामेकः शूद्रापुत्रः, तदा नवधा विभक्तस्यार्थस्य ब्राह्मणीपुत्रावष्टौ भागानादद्यातामेकं शूद्रापुत्रः ॥ १८.३८ ॥

अथ शूद्रापुत्रावुभौ स्यातामेको ब्राह्मणीपुत्रः, तदा षड्धा विभक्तस्यार्थस्य चतुरोऽंशान् ब्राह्मणस्त्वादद्यात्, द्वावंशौ शूद्रापुत्रौ ॥ १८.३९ ॥

अनेन क्रमेणान्यत्राप्यंशकल्पना भवति ॥ १८.४० ॥

विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि ।
समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते ॥ १८.४१ ॥

अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जयेत् ।
स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ १८.४२ ॥

पैतृकं तु यदा द्रव्यमनवाप्तं यदाप्नुयात् ।
न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥ १८.४३ ॥

वस्त्रं पत्रमलंकारः कृतान्नमुदकं स्त्रियः ।
योगक्षेमं प्रचारश्च न विभाज्यं च पुस्तकम् ॥ १८.४४ ॥