पिता चेत्पुत्रान् विभजेत्तस्य स्वेच्छा स्वयमुपार्जितेऽर्थे ॥ १७.१ ॥
पैतामहे त्वर्थे पितृपुत्रयोस्तुल्यं स्वामित्वम् ॥ १७.२ ॥
पितृविभक्ता विभागानन्तरोत्पन्नस्य भागं दद्युः ॥ १७.३ ॥
अपुत्रधनं पत्न्यभिगामि ॥ १७.४ ॥
तदभावे दुहितृगामि ॥ १७.५ ॥
तदभावे पितृगामि ॥ १७.६ ॥
तदभावे मातृगामि ॥ १७.७ ॥
तदभावे भ्रातृगामि ॥ १७.८ ॥
तदभावे भ्रातृपुत्रगामि ॥ १७.९ ॥
तदभावे बन्धुगामि ॥ १७.१० ॥
तदभावे सकुल्यगामि ॥ १७.११ ॥
तदभावे सहाध्यायिगामि ॥ १७.१२ ॥
तदभावे ब्राह्मणधनवर्जं राजगामि ॥ १७.१३ ॥
ब्राह्मणार्थो ब्राह्मणानाम् ॥ १७.१४ ॥
वानप्रस्थधनमाचार्यो गृह्णीयात् ॥ १७.१५ ॥
शिष्यो वा ॥ १७.१६ ॥
संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ।
दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥ १७.१७ ॥
पितृमातृसुतभ्रातृदत्तम्, अध्यग्न्युपागतम्, आधिवेदनिकं, बन्धुदत्तं, शुल्कम्, अन्वाधेयकमिति स्त्रीधनम् ॥ १७.१८ ॥
ब्राह्मादिषु चतुर्षु विवाहेष्वप्रजायामतीतायां तद्भर्तुः ॥ १७.१९ ॥
शेषेषु च पिता हरेत् ॥ १७.२० ॥
सर्वेष्वेव प्रसूतायां यद्धनं तत्दुहितृगामि ॥ १७.२१ ॥
पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ १७.२२ ॥
अनेकपितृकाणां तु पितृतोऽंशप्रकल्पना ।
यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः ॥ १७.२३ ॥