समानवर्णासु पुत्राः सवर्णा भवन्ति ॥ १६.१ ॥
अनुलोमासु मातृसवर्णाः ॥ १६.२ ॥
प्रतिलोमास्वार्यविगर्हिताः ॥ १६.३ ॥
तत्र वैश्यापुत्रः शूद्रेणायोगवः ॥ १६.४ ॥
पुल्कसमागधौ क्षत्रियापुत्रौ वैश्यशूद्राभ्याम् ॥ १६.५ ॥
चण्डालवैदेहकसूताश्च ब्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः ॥ १६.६ ॥
संकरसंकराश्चासंख्येयाः ॥ १६.७ ॥
रङ्गावतरणमायोगवानाम् ॥ १६.८ ॥
व्याधता पुल्कसानाम् ॥ १६.९ ॥
स्तुतिक्रिया मागधानाम् ॥ १६.१० ॥
वध्यघातित्वं चण्डालानाम् ॥ १६.११ ॥
स्त्रीरक्सा तज्जीवनं च वैदेहकानाम् ॥ १६.१२ ॥
अश्वसारथ्यं सूतानाम् ॥ १६.१३ ॥
चण्डालानां बहिर्ग्रामनिवसनं मृतचैलधारणमिति विशेषः ॥ १६.१४ ॥
सर्वेषां च समानजातिभिर्विवाहः ॥ १६.१५ ॥
स्वपितृवित्तानुहरणं च ॥ १६.१६ ॥
संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ १६.१७ ॥
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।
स्त्रीबालाद्यवपत्तौ च बाह्यानां सिद्धिकारणम् ॥ १६.१८ ॥