अथ द्वादश पुत्रा भवन्ति ॥ १५.१ ॥
स्वक्षेत्रे संस्कृतायामुत्पादितः स्वयमौरसः प्रथमः ॥ १५.२ ॥
नियुक्तायां सपिण्डेनोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः ॥ १५.३ ॥
पुत्रीकापुत्रस्तृतीयः ॥ १५.४ ॥
यस्त्वस्याः पुत्रः स मे पुत्रो भवेदिति या पित्रा दत्ता सा पुत्रिका ॥ १५.५ ॥
पुत्रिकाविधिं विनापि प्रतिपादिता भ्रातृविहीना पुत्रिकैव ॥ १५.६ ॥
पौनर्भवश्चतुर्थः ॥ १५.७ ॥
अक्षता भूयः संस्कृता पुनर्भूः ॥ १५.८ ॥
भूयस्त्वसंस्कृतापि परपूर्वा ॥ १५.९ ॥
कानीनः पञ्चमः ॥ १५.१० ॥
पितृगृहे असंस्कृतयैवोत्पादितः ॥ १५.११ ॥
स च पाणिग्राहस्य ॥ १५.१२ ॥
गृहे च गूढोत्पन्नः षष्ठः ॥ १५.१३ ॥
यस्य तल्पजस्तस्यासौ ॥ १५.१४ ॥
सहोढः सप्तमः ॥ १५.१५ ॥
या गर्भिणी संस्क्रियते तस्याः पुत्रः ॥ १५.१६ ॥
स च पाणिग्राहस्य ॥ १५.१७ ॥
दत्तकश्चाष्टमः ॥ १५.१८ ॥
स च मातापितृभ्यां यस्य दत्तः ॥ १५.१९ ॥
क्रीतश्च नवमः ॥ १५.२० ॥
स च येन क्रीतः ॥ १५.२१ ॥
स्वयमुपगतो दशमः ॥ १५.२२ ॥
स च यस्योपगतः ॥ १५.२३ ॥
अपविद्धस्त्वेकादशः ॥ १५.२४ ॥
पित्रा मात्रा च परित्यक्तः ॥ १५.२५ ॥
स च येन गृहीतः ॥ १५.२६ ॥
यत्र क्वचनोत्पादितश्च द्वादशः ॥ १५.२७ ॥
एतेषां पूर्वः पूर्वः श्रेयान् ॥ १५.२८ ॥
स एव दायहरः ॥ १५.२९ ॥ स चान्यान् बिभृयात् ॥ १५.३० ॥
अनूढानां स्ववित्तानुरूपेण संस्कारं कुर्यात् ॥ १५.३१ ॥
पतितक्लीबाचिकित्स्यरोगविकलास्त्वभागहारिणः ॥ १५.३२ ॥
रिक्थग्राहिभिस्ते भर्तव्याः ॥ १५.३३ ॥
तेषां चौरसाः पुत्रा भागहारिणः ॥ १५.३४ ॥
न तु पतितस्य ॥ १५.३५ ॥
पतनीये कर्मणि कृते त्वनन्तरोत्पन्नाः ॥ १५.३६ ॥
प्रतिलोमासु स्त्रीषु चोत्पन्नाश्चाभागिनः ॥ १५.३७ ॥
तत्पुत्राः पैतामहेऽप्यर्थे ॥ १५.३८ ॥
अंशग्राहिभिस्ते भरणीयाः ॥ १५.३९ ॥
यश्चार्थहरः स पिण्डदायी ॥ १५.४० ॥
एकोढानामप्येकस्याः पुत्रः सर्वासां पुत्र एव ॥ १५.४१ ॥
भ्रातॄणामेकजातानां च ॥ १५.४२ ॥
पुत्रः पितृवित्तालाभेऽपि पिण्डं दद्यात् ॥ १५.४३ ॥
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।
तस्मात्पुत्त्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ १५.४४ ॥
ऋणमस्मिन् संनयत्यमृतत्वं च गच्छति ।
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥ १५.४५ ॥
पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ १५.४६ ॥
पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ।
दौहित्रोऽपि ह्यपुत्रं तं संतारयति पौत्रवत् ॥ १५.४७ ॥